SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रतिसूत्रम् ॥१६६॥ हत्तममकृत कृतज्ञः सुतस्य तस्य स च । देवकुमारः स्फुटमयमिति देवकुमार नाम पुनः ॥ १७॥ आजन्म-18 २९गाथातोऽपि पटुवाक पटुधीर्विधुरेऽपि धीरधौरेयः ।लोकोत्तररूपादिकगुणैः समं स क्रमाद्ववृधे ॥१८॥ सर्वत्रापि- या पोपधे शुनानामिव पिशुनानामवाप्तितः कश्चित् । अथ कथमपि निधिलाभं वुद्धाऽभिदधे घराधिपतेः॥१९॥ लुब्ध- इभ्यद्वयक्रुद्धनरेशादेशादागच्छतोऽथ धाग्नि भटान् । बुद्धा यावत् श्रेष्ठि प्रमुखाः प्रचकम्पिरे प्रोचैः ॥ २०॥ तावदभा-1 ज्ञातं |षिष्ट शिशु ! भो ! मा भेष्ट कष्टहृद्वोऽहम् । मयि रक्षकेत्र रक्षापतिरपि नोपद्रवे दक्षः॥ २१ ॥ धनगमना-19 रेकामपि कामपि मा काष्टं धाष्यमाश्रयत । यो ननु धनस्य दाता स एव संरक्षिताऽपि खलु ॥ २२ ॥ जल्पन्नेवं वालः पालनकादुत्थितः स्थितश्च द्राग । गत्वा गेहद्वारे सहस्रयोधीव योधवरः॥ २३ ॥ इतश्चागता असुरा इव सुदुर्धरा धराधिपनराः, यावच्च प्रविशन्ति तस्यावासान्तस्तावत्तेनार्द्धमास्येनापि बालेन व्यालेनेव विकरालेन18 तथा हक्किता हताश्चोत्कट्यपेटाभिश्चपेटाभिर्यथा वमन्ति स्म मुखेन रक्तष्ठीविसंनिपातव्यथिता इव रुधिरं भ्रमन्ति स्म च चक्रनमिता इव निरन्तरं पतन्ति स्म मद्यधूर्णिता इव क्षोणिपीठे भवन्ति स्म मूर्च्छिता इव च सर्वे, ततस्तव्यतिकरमाकर्ण्य जायते स्म महीयान् महीपतेः कोपः, क्रियते स्म च तेन सङ्ग्रामसामग्याटोपः अत्रान्तरे मनिवरेण नरेश्वरः परमाप्तप्रज्ञापनया विज्ञापयामहे-देव ! सतां निवारिता केयमविमृश्यकारिता ॥१६६॥ | कोऽयं निष्फलारम्भः संरम्भः ? ननु यत्र जातमात्रबालोऽप्येवं प्रगल्भते तत्र किं नाम सामर्थ्यमवकाशं लभते खामिन् ! असंभाव्यमवक्तव्यमिदं महागहनपदं किञ्चित्, ततः संरम्भं परित्यज्य प्रतीक्ष्यपादाः प्रतीक्षध्वं Jan Education For Private Personale Only 1ONw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy