SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ भगवतीवृत्तौ तु उद्दिष्टा-अमावास्या इत्युक्तं ततोऽष्टम्यादिपर्वस्वेव पोषधः कार्यो न शेषदिवसेष्विति, मैवं, नाय-12] मेकान्तः, सुबाह्वादिभिर्दशभिः श्रावकैः पर्वान्यदिनेऽपि पौषधस्य कृतत्वात् , तदुक्तं विपाकश्रुताङ्गद्वितीयश्रुतस्कन्धे प्रथमाध्ययने-"तए णं से सुबाहुकुमारे अन्नया कयाइ चाउद्दसट्ठमुद्दिट्टपुण्णिमासिणीसु जाव पोसहसालाए पोसहिए अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरई"त्ति,एवं चाष्टमकरणादिनत्रयं संलग्नपोषधग्रहणात्पर्वान्यदिनेऽपि पोषधोऽनुमत एव, किश्च-यदि पर्वान्यदिने पोषधकरणमविधिरेव स्यात् तदाऽभयकुमारश्रीविजयनृपादीनांतत्तत्कार्योत्पत्तौ दिनत्रयसप्तकादिपोषधोपवासैः कथं नामेष्टसिद्धिर्बभूव?, अविधिकरणे हि प्रत्युतापाय एव संभाव्येत यथाऽकाले स्वाध्यायकरणे, न च तेषामिष्टसिद्धिभवनं सन्दिग्धमिति वाच्यं, ज्ञाताधर्मकथाङ्गवसुदेवहिण्डिप्रभृत्यागमे साक्षादुक्तत्वात् ,अपि च-"सबेसु कालपवेसु पसत्थो जिणमए तहा (वो) जोगो। अट्ठमिचउद्दसीसुं नियमेण हविज पोसहिओ॥१॥"इत्याद्यावश्यकचूादौ पर्वसु नियमेन पोषधाभिधानात् शेषदिवसेषु अनियमेन पौषधग्रहणमायाति न तु तन्निषेधः, न च कापि आगमे तन्निषेधः श्रूयते, ननु “पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयौ” इतिश्रीहरिभद्रसूरिकतावश्यकबृहदत्तिश्रावकप्रज्ञप्तिवृत्त्यादौ साक्षादुक्त एव तनिषेध इति चेत् अहो ग्रन्थकाराभिप्रायज्ञता भवतः, नहीदं वचनं पर्वान्यदिनेषु पोषधनिषेधपरं, किन्तु पर्वसु पोषधकरणनियमपरं, यथा आवश्यकवृत्त्यादौ श्राद्धपश्चमप्रतिमाधिकारे 'दिवैव ब्रह्मचारी | न तुरात्रौ' इति वचनं दिवसे ब्रह्मचर्यनियमार्थ न तु रात्रौ ब्रह्मनिषेधार्थ, अन्यथा पञ्चमप्रतिमाराधकश्राद्धेन | Jain Educa t ional For Private & Personal Use Only Paw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy