________________
श्राद्धप्र
ति० सूत्रम्
॥ १५०॥
Jain Education
ह- सामायिके द्विविधस्य त्रिविधेन प्रत्याख्याते रोद्धुमशक्येन मनसा दुष्प्रणिधानसम्भवात्सामायिकाभाव एव व्रतभङ्गजनितं च प्रायश्चित्तं स्यादतस्तदङ्गीकारादनङ्गीकार एव श्रेयान् मैवं वोचः, सामायिकप्रतिपत्तौ हि सा| वद्यं मनसा न करोमि १न कारयामि २ वाचा न करोमि ३ न कारयामि ४ कायेन न करोमि ५ न कारयामीति ६ पण्णियमास्तेष्वना भोगादिनैकतर भङ्गेऽपि शेषसद्भावान्न सर्वथा सामायिकाभावः, मनोदुष्प्रणिधाने च मिध्यादुष्कृतेनैव शुद्धिभणनान्न सामायिकास्वीकारः श्रेयस्करः, अन्यथा सर्वविरतेरप्यस्वी कार्यताप्रसङ्गात् यच्चा - | विधिकृतादनुष्ठानादूरमकृतमिति केचिद्वदन्ति तदप्ययुक्तं, यदुक्तम्- "अविहिकया वरमकयं असूअवयणं भ| णंति समयन्नू । पायच्छिन्तं जम्हा अकए गुरुअं कए लहु ॥ १ ॥ किञ्च सातिचारादप्यनुष्ठानादभ्यासतः | कालेन निरतिचारमनुष्ठानं भवति, अभ्यासो हि कर्मणां कौशलमावहति न हि प्रथमत एव धनुर्द्धरादीनाप्यममोघकर्मत्वं, अभ्यासे सत्येव तद्भावाद्, यथा कर्णार्जुनादीनां लिखनपठनगीतनृत्यादिकला अप्यभ्यासेनैव प्रायः प्रकर्षं प्राप्नुवन्ति, न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्राणि निम्नतामादधाति, अतः सम्यगमनः शुद्ध्यादौ प्रय| त्रपरेण यथाक्षणं पुनः २ सामायिकं कर्त्तव्यं, तथा चागमः - "सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइअं कुज्जा ॥ १ ॥ जीवो पमायबहुलो बहुसोविअ बहुबिसु अत्थे । एएण कारणेणं बहुसो सामाइअं कुज्जा ॥ २ ॥” आवश्यकचूर्णावप्युक्तम्- " यदा सहसामाइअं का मसक्तो | तदा देस सामाइअंपि ताव बहुसो कुज्जा' इति, तथा 'जत्थ वा वीसमइ अच्छइ वा निवावारो सवत्थ सामाइअं
ational
For Private & Personal Use Only
२७गाथा
यां सामा
यिकाती
चाराः
॥ १५०॥
www.jainelibrary.org