SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रम् ॥१४८॥ Jain Educatio प्राप्तावच्युते वैदशीं श्रियम् ॥ ५५ ॥ च्युत्वा यातौ विदेहं तौ, निस्संदेहं महर्द्धिताम् । लब्ध्वा बुद्धाऽऽर्हतं धर्मं, | भाविनौ शिवगामिनी ॥ ५६ ॥ अखण्डधर्मे विहितेऽप्यनर्थदण्डस्य हास्यादपि किञ्चिदेवम् । प्रचण्डदण्डं परिभाव्य भव्यास्तत्त्यागतः श्राक् सुखितां श्रयध्वम् ॥ ३५७ ॥ ॥ इत्यष्टमत्रते वीरसेन कुसुमश्रीदृष्टान्तः ॥ इति श्रीतपागच्छनायक परमगुरुश्री सोमसुन्दरसूरिशिष्य श्री भुवन सुन्दरमूरिविनेयोपाध्यायश्रीरत्नशेखरगणिविरचितायां श्राद्धतिक्रमणसूत्रवृत्तौ गुणवताधिकारस्तृतीयः ॥ ग्रन्थाग्रम् ५३३१ ।। ०००० उक्तानि त्रीणि गुणव्रतानि, सम्प्रति चत्वारि शिक्षाव्रतानि प्रस्तुतानि तेषु च प्रथमं सामायिकवतं मूलतस्तु नवमं तत्रायमावश्यक चूर्णिपञ्चाशक चूर्णियोगशास्त्रवृत्त्याद्युक्तो विधिः- इह श्रावको द्विविधः - ऋद्धिमान वृद्धिकञ्च तत्र योऽवृद्धिकः स चतुर्षु स्थानेषु सामायिकं करोति - जिनगृहे साधुसमीपे पोषधशालायां स्वगृहे वा, यत्र वा विश्राम्यति निर्व्यापारो वा तिष्ठति तत्र च सर्वत्र, यदा च साधुसमीपे करोति तदाऽयं विधिः-यदिक| स्मादपि भयं नास्ति केनचिद्विवादो वा नास्ति ऋणं वा न धारयति मा भूत्तत्कृताकर्षणापकर्षणनिमित्तश्चित्तसङ्क्लेशः, यदि च निर्व्यापारोऽस्ति तदा स्वगृहे सामायिकं कृत्वेर्या शोधयन् सावद्यां भाषां परिहरन् काष्ठ| लेट्वादिना यदि कार्यं तदा तत्खामिनमनुज्ञाप्य प्रतिलिख्य प्रमार्ण्य च गृह्णन् खेलसिङ्घाणादीकांश्चाविवेचयन् | प्रत्यवेक्षितप्रमार्जितस्थण्डिले वा विवेचयन् एवं पञ्चसमितित्रिगुप्तियुक्तो नैषेधिकीपूर्वं साध्वाश्रयं गत्वा गुरून्नत्वा For Private & Personal Use Only ational सामायिकस्वरूपं ३३९-३५७ ॥१४८॥ v.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy