SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ दाखवारिणा मोचयत्वमुम् ॥ ७७॥ चक्रुश्च पदेव्याद्यास्तथा न त्वभवत्फलम् । दुःसंभवा हि मनसा, वि-1 शुद्धिः शीलशीलने ॥ ७८ ॥ तदपत्रपया तासु, न्यङ्मुखाखखिलास्वपि । का सती स्याद्विशुद्धति, संशयाने जनेऽखिले ॥ ७९ ॥ देव्युवाद स्वापवादच्छेदायोत्सर्गकारिणी । फुम्फागृहेऽस्ति श्लाघ्याऽहो! कुसुमश्रीमहासती ॥ ८० ॥ युग्मम् ॥ कुमारमन्त्रिप्रमुखाः, सर्वे गर्वेण वर्जिताः । स्वयं गत्वा खेष्टसिद्ध्यै, प्रह्ना आह्वानयंतु ताम् ॥८१॥ विस्मिता देवतावाक्यात्तेऽपि तत्र गता द्रुतम् । आह्वयन बहुमानात्तां, कीरोऽपि भैरयत्तथा ॥ ८२॥ देवताऽप्येत्य तत्रोचे, बाले! बालेन्द्र निर्मले!। शीललीलायितं किञ्चित् , कौमुदीवत् प्रदर्शय ॥ ८३॥ ततः सा पारितोत्सा, निसर्गादपि वत्सला । उपक्षमापतिं प्रापद्दिव्यनव्यमहोत्सवः॥८४॥ मनसा वचसा कायेनाप्याजन्मन चेत्परः। अकामये कुमारात्तत्सिद्धिरत्रास्तु माऽन्यथा ॥८५॥ इत्युचैःप्रोच्य सातोयच्छटयाऽच्छोटयन्नुपम् । |बन्धाश्च शीर्णतृणवत्रटनटिति तुत्रुटुः ॥ ८६ ॥ आकाशात्पुष्पवृष्टिश्च, तदाऽभूत्तोयवृष्टिवत् । शीलेन निष्कल-181 केन, किं किं वा दुर्लभं नृणाम् ? ॥ ८७ ॥ स्वस्थीभूतस्ततो भूतधात्रीशः स प्रभूतमुत् । ब्रीडाविषादविस्मयरसैश्च विवशोऽप्यभूत् ॥ ८८॥ वेश्यावेश्मस्थिताऽप्येषा, प्राप्तरेखा सतीष्वहो । कथमित्थं कुमारोऽध, देवीं पप्रच्छ वत्सलाम् ॥ ८९॥ ततस्तया समस्तेऽपि, वृत्तान्ते कथितेऽद्धते । चित्रीयमाणाः सर्वेऽपि, श्लाघन्ते स्म शुकं च ताम् ॥ ९० ॥ केयं किमस्मत्सान्निध्यं, विदध्यादिति विस्मितौ। कुसुमश्रीकुमारी तु, देव्युवाद प्रसादभृत् ॥ ९१ ॥ सुभगौ मां युवां दक्षी, नोपलक्षयथः कथम् ? । पद्रदेव्यस्मि कुसुमपुरे प्राक् तोषिता त्वया &seeeeeeeeeeeeeeeeeeeeeeeeee Jain Educa t ional For Private & Personel Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy