________________
"टडाच्छेदे न मे दुःखं, न दाहे न च घर्षणे । एतदेव महदुःखं, गुञ्जया सह तोलनम् ॥४७॥” तां तथा दु:-15 स्थितावस्थां, निध्याय ध्यायति स्म सः। नेयं नाम पणस्त्रीव, कुलस्त्रीव तु लक्ष्यते ॥४८॥ तदियं दयिता किं मे, धिर धिग वा सा महासती । किमेतद्धामनामापि, शफरीव दवं सहेत् ? ॥४९॥ तदेषा काचिदन्यैव, दुर्दैववशतस्तु सा । को वेद क गता कास्ति, नास्ति वा काऽसि हा प्रिये ! ॥५०॥ स्मृतदुःखं तमप्येवं. न्यङ्मुखं वीक्ष्य पक्षिराटू । स जगाद विषादोऽयं, का प्रमोदपदेऽद्य वाम् ? ॥५१॥ श्रुत्वेत्यूर्द्धमुखः प्रेक्ष्य, प्रे-16 क्षावान् पञ्जरे शुकम् । अयं क्रीडाशुकः किं मे?, यावदेवं व्यतर्कयत् ॥५२॥ तावदागात्तदुत्सङ्गे, रङ्गेणात्युत्सुकः शुकः । उपलक्ष्य च संभाष्य, लेहात्तेनाप्यपृच्छयत ॥५३॥ वत्स ! वेत्सि प्रियाशुद्धि, कामपीत्यथ सोडप्यवक् । खामिन् ! कोऽयं भ्रमस्तेऽद्य, देवीयं पुरतः स्थिता ॥ ५४॥॥ तन्निशम्य कुमारः श्राङ्, निकामं श्यामलाननः। चित्तान्तश्चिन्तयामास, धिगहो चरितं स्त्रियाः॥५५॥ इयं तस्य महीभर्तुदुहिता मम च प्रिया । अद्रष्टव्यमथाश्रव्यं, वेश्यात्वं कथमाचरेत् ? ॥५६॥ माननीयः सतां पुत्रस्थानीयश्च शुकोऽप्ययम् । कारयेदीदृशं कर्म, धिग द्वयोनिविवेकताम् ॥५७॥ तदस्या अतिनिन्द्याया, न युक्तं दर्शनाद्यपि । विषादविषदाहेन, यावदेवमदाहि सः॥५८॥ उत्तालस्तुमुलस्तावद्भूपालभवनेऽभवत् । तां त्याज्यामिव तयाजात्त्यक्त्वा द्राक् तत्र सो ऽप्यगात्॥५९॥युग्मम् । अद्राक्षीच दृढं क्रौञ्चबन्धं बर्ड धराधवम् । फेनायमानं भूपीठे,लुठन्तं वध्यजन्तुवत्॥६॥ अथ संभाव्य तद्दिव्यमक्रियन्त प्रतिक्रियाः। मन्त्रिभिर्मत्रतत्राद्या, नैकास्तास्त्वभवन् वृथा ॥ १॥ अथ कण्ठ
श्रा.प्र.सू.२५lona
For Private
Personal Use Only
pinelibrary.org