________________
श्राद्धप्रतिःसूत्रम्
॥१३८॥
तत्र च-ततं वीणादि तालादि, घनं च मुरजादिकम् । आनद्धं शुषिरं वंशाद्येवं वावं चतुर्विधम् ॥५०॥ श्रीरा- अनर्थदण्डे गमुख्या रागाः षड्, भाषास्त्रिंशत् षडन्विताः । षड्जादयः खराः सप्त, मयूरादिकशब्दगाः॥५१॥ यदुक्तम्-वीरसेनकु“षड्जं मयूरा ब्रुवते, गाच ऋषभभाषिणः। अजा वदन्ति गान्धारं, क्रोश्चः कणति मध्यमम् ॥५२॥ पुष्पसाधारणे|| सुमश्रीकाले, पिकाः कृजन्ति पञ्चमम् । धैवतं प्राहुरश्वाश्च, निषादं बृंहते गजः (ब्रुवते गजाः) ॥५३॥ खरानुगास्त्रयो कथा ग्रामा, मूर्च्छना एकविंशतिः । ताना एकोनपश्चाशन्मात्रास्तिस्रस्त्रयो लवाः॥५४॥ चतुर्की रूपकं त्रेधाऽध्यकताली ३४-६४ द्विधा पुनः । रासाष्टतालकानीसारुचकप्रतिमाठकाः ॥५५॥ माठकः षड्डिधो धूआभिधः षोडशभेदभृत् । त्रिधा | सुडं झुम्बडकः, करणी वर्तनी तथा ॥५६॥ रागोपरागा रागाङ्गभाषाङ्गानि क्रियाङ्गयुग । उपाङ्गादीनि गीते स्युर्भेदा नृत्ये तु ते यथा ॥५७ ॥ त्रयोदश भेदाः शीर्षे, सप्तत्रिंशच लोचने । कनीनिका नवविधाऽप्यष्टावालोकने गुणाः ॥५८॥ पुटानि नव सप्त भ्रूभेदा नासा कपोलयुक् । षोढाऽधरश्च प्रत्येकं, मुखरागश्चतुर्विधः ॥१९॥ ग्रीवा नवविधा बाहुः, पञ्चभेदः करः पुनः । हस्तकानि चतुःषष्टिहृच्च पार्च च पञ्चधा ॥ ६०॥ कुक्षिकत्यूरुजचाश्च, प्रत्येकं त्रिविधा मताः । करणान्यष्टाग्रशतं, द्वात्रिंशदङ्गहारकाः ॥३१॥ चत्वारो रेचकाः सप्तदश बन्धाश्च पैण्डिकाः। इत्युच्चैः स्फीतसङ्गीतरसे स विवशोऽभवत् ॥ ३२॥ मानुष्यकेऽपि सङ्गीते, जन्तुर्जायेत तन्मयः। ॥१३८॥ किं पुनर्देवते ह्यायुरपि पूर्येत यद्रसात् ॥ ६३॥ एकाकिनी तदानीं च, कुसुमश्रीरपि क्षणात् । निद्राणा देव-18 वशतो, भावि स्यात्कधमन्यथा? ॥ ६४ ॥ तावत्तुरङ्गपल्यङ्को, चौरवत् कोऽप्यपाहरत् । छलच्छेकाश्छलं प्राप्य,
For Private Personal use only
Jan Education