SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ कुमारमिव भूमिगम् । सप्रश्रयं श्रयन्ति स्म, निस्तुलाः सकलाः कलाः ॥३॥ इतश्च-पुरे रत्नपुरे रानजैनप्रासादसुन्दरे । आसीन्यायधुराधीरो, रणधीरो धराधिपः॥ ४॥ पत्नी रत्नावली रत्नावलीवास्य सुनिर्मला । अपत्य-18 चिन्तातुरयोस्तयोः कालः कियानगात् ॥५॥ अथोपयाचितशतैः, प्राकृतः सुकृतैस्तयोः । कुसुमश्रीरिति ख्याता, जाता विश्वाद्धता सुता ॥६॥ लावण्यकुल्या निस्तुल्या, सा बाल्यातिक्रमात् क्रमात् । रराज स्मरराजस्य, राजधानीव जङ्गमा ॥ ७ ॥ वरचिन्तातुरस्तस्याः, पिताऽज्ञासीचरैनरैः। साक्षान्मारं कुमारं तं, वीरसेनं वरं वरम् ॥ ८॥ सुरसुन्दरनामानं, निपुणं तत्र मन्त्रिणम् । प्रैषीद्वरैषी राजाऽथ, सत्वरं सोऽपि जग्मिवान् ॥९॥ सर्वाङ्गीणगुणश्रीणां, तं सङ्केतनिकेतनम् । दृष्ट्वाऽतिहृष्टः सचिवस्तस्मै दत्ते स्म तां कनीम् ॥ १०॥ पित्रादेशान्महासेनो, वीरसेनोऽपि तत्पुरे । अगाभङ्ग इवाकृष्टः, स्वीकर्तुं कुसुमश्रियम् ॥११॥ महीयसा महेनाथ, मही-1 शस्तो व्यवाहयत् । सा त्वाख्यदषडक्षीणं, करमोक्षक्षणे पतिम् ॥१२॥ देव ! देवतया दत्तोऽश्वः पल्यङ्कः शुकस्तथा। याञ्चामहन्ति न त्वन्यडनसैन्यादि किञ्चन ॥१३॥ यथार्थनामा कमलामेलस्तत्र तुरङ्गमः । हुङ्कतेः कामितं गन्ता, दिवि दिव्यविमानवत् ॥१४॥ पल्यङ्कः सर्वदा स्वर्गिपल्यङ्कः इव सज्जितः। स्वामीष्ट्या पृष्ठगामीष्टनिद्राकृत कामितप्रदः।।१५।। सुधीः सुधीप्रदस्तादृग, विधुराप्ती सुधीरहृत् । विदग्धचूडामण्याख्यः, शुकश्च शकुनादिवित् ॥१६॥ त्रिरत्नी त्रिवेदीव, निजाव्यभिचारिणी । विश्वातिशायिताहेतुः, सैव तन्मार्यतां गुरोः ॥१७॥ पञ्चभिः कुलकम् । तेनापि मुदितेनैवं, याचितेऽचिन्तयन्नपः। अहो ! गृहरहस्यं मे, ध्रुवं पुत्र्या प्रकाशितम् ॥१८॥ गन्ता, द्विति ॥ सुधीः सुधीप्रस्ताव्यभिचारिणी । विश्व गृहरहस्यं मे, Jain Educatio n For Private & Personel Use Only w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy