________________
श्राद्धप्रति-सूत्रम्
॥१३॥
कथा
यत् , तत्र च महेन्ययशोदत्तपुत्री लक्ष्मीवती शीलादिसर्वगुणमयी तया पटहं निवार्य हस्तस्पर्शेन कुष्ठः स्फेटितः, यत:-“यस्य स्मरणमात्रेण, सर्वाः संसारजा रुजः । शरीरिणो विशीर्यन्ते, सोऽयं शीलभिषा नवः | गाथयोः S॥१॥” ततस्तयोः पाणिग्रहमहः, पुत्रं राज्ये न्यस्य दीक्षाऽऽददे राज्ञा, तत्र चैकदा पाटलाचार्या ज्ञानिन ऐयुः, अनर्थदण्डे
गुरुवन्दनार्थ नृपराश्योगमनं, देशनान्ते प्राग्भवपृच्छा, गुरुराह-वसन्तपुरे व्यवहारिदेवदत्तस्य चत्वारः पुत्राः- चन्द्रोदये धनदत्तो १ धनदेवोधनमित्रो ३ धनेश्वर ४ श्च मिथ्यात्विनः, इतश्च मृगपुरे जिनदत्तः श्रेष्ठी जैनः, पुत्री मृग- मृगसुन्दरी सुन्दरी तस्या अभिग्रहनयं-जिनं पूजयित्वा १ साधूनां दानं दत्त्वा भोक्ष्येऽहं २ रात्रौ च न भुले ३, अन्यदा व्यवसायार्थ धनेश्वरो मृगपुरे ययौ, दृष्टा रूपश्रीजितसुरसुन्दरीवृन्दा मृगसुन्दरी, दृढमनुरागो जज्ञे, मिथ्यात्विनो नैनांदत्ते पितेति ज्ञात्वा कपटश्रावकीभूय तां परिणिन्ये सः, स्वगृहे नीता, धर्मेय॑या जिनपूजादि निषिद्धं,तस्याः क्षपणत्रयं जातं, तया गुरवः पृष्टाः, गुरुभिर्गुणागुणं विचार्योक्तं-चुल्हकोपरि चन्द्रोदयं बनीयास्तेन पञ्चसाधुदानेन पञ्चतीर्थ्यांश्च नमस्क्रियया यादृशं पुण्यं जायते (तादृशं पुण्यमवाप्यते), ततस्तया तथा कृते श्वशुरादिभिः किमपि कार्मणमनया कृतमिति विचार्योक्तं धनेश्वरस्य, तेन स चन्द्रोदयो ज्वालितः तया द्वितीयोबद्धः सोऽपि ज्वालितः एवं सप्त दग्धाः, ततश्च श्वशुरेणोक्तं-भद्रे ! किमर्थोऽयं प्रयासः ?, तयोक्तं-जीवदयार्थ, पुनस्तेन सरोषमूचे-तर्हि
॥१३४॥ पितृगृहे गच्छ, तयोक्तं-सकुटुम्बेन त्वयाऽहं पितृगृहे मोच्या, ततः सर्वेऽपि चलिताः, कापि मार्गग्रामे श्वशुर-13 पक्षीयैः प्राघूर्णका) रात्री पाकः कृतः, सा वधूः बहुकथनेऽपि न भुलेऽतः कोऽपि न भुक्तः, ततो यस्य गृहेऽन्नं
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org