________________
अनर्थद|ण्डभेदौ
श्राद्धप्र- 18॥१६॥ प्राग्भवानुगतमनिपुत्रिकाचित्रकारिचरितादितीरितात् । भो ! विभाव्य विपुलं द्विधाफलं, सप्तमव्रततिसूत्रम् | विधौ प्रयत्यताम् ॥ १७ ॥
॥ इति भोगोपभोगवते मत्रिपुत्रिकासम्बन्धः ॥ ॥१३॥ | उक्तं सप्तमं व्रतमथानर्थदण्डपरिहाराख्यमष्टमं, गुणवतं तु तृतीयं, तत्रार्थ:-प्रयोजनं क्षेत्रवास्तुधनधान्यश
रीरखजनपरिजनादिविषयं तस्याभावोऽनर्थस्ततोऽनर्थ-निष्प्रयोजनं प्राणी पुण्यधनापहारेण दण्ड्यते-पापकर्मणा विलुप्यते येन सोऽनर्थदण्डः, यदाह-"जं इंदिअसयणाई पडुच्च पावं करेज सो होइ । अत्थे दंडो इत्तो अन्नो उ अणत्थदंडो अ॥१॥" स चापध्यान १ पापोपदेश २ हिंस्रप्रदान ३ प्रमादाचरित ४ भेदाचतुर्दा, तत्रापध्यान-आर्तरौद्रभेदाद्द्विधा, तत्राप्यात चतुर्दा-अनिष्टशब्दादीनां कालत्रयेऽप्यत्यन्तविप्रयोगचिन्ता १ एवं रोगादिवेदनाया विप्रयोगचिन्ता २, इष्टशब्दादीनां कालत्रयेऽप्यत्यर्थं संयोगाध्यवसायः ३, दिव्यभोगर्द्धिराज्यादिनिदानाध्यवसाय ४ श्चेति, रौद्रमपि चतुर्दा-हिंसानुवन्धि १ मृषानुबन्धि २स्तेयानुबन्धि ३ विषयसंरक्षणानुबन्धि च ४, तत्राद्यमतिक्रोधादिना द्वेष्यं प्रति वधवन्धनाङ्कनहिंसनपुरदेशभङ्गादिचिन्ता १, द्वितीयं पिशुनासभ्यासद्भूतघातकादिवाक्प्रणिधानं २, तृतीयं परखहरणचिन्ता ३, तुर्य शब्दादिविषयसाधनधनरक्षार्थ सर्वेषामविश्वसनेनोपघात एव श्रेयानिति दुनिं ४-१क्षेत्रं कृष वृषवृन्दं दमय हयान् षण्डय कथय शत्रून् यत्रं वाहय शस्त्रं सज्जय पापोपदेशोऽयम् , एवं प्रत्यासीदति वर्षाकालो दीयतां वल्लरेष्वग्निः सज्जीक्रियतां हलफा
॥१३॥
JainEducational
For Private Personal Use Only