________________
दृक्ष । फलानि शस्त्रेषु च नन्वभूवंस्तदा दुमादौ कचिदल्पतोऽपि ॥६॥ जलाशयानां जलमप्यपेयमशेषमासीद्विषमिश्रितं तु । तदृष्टितस्तेन जनः समग्रोऽप्यत्याकुलीभावमवापदुच्चैः॥७॥ दुर्भिक्षकाले किल पत्रपुष्पफलैजलैश्चाखिलदेहभाजाम् । निर्वाहमानं हि भवेत्कथश्चित्तदा तदप्याप सुदुर्घटत्वम् ॥ ८॥ महेभ्यगेहान्तरवर्ति-|| कूपीजलेन बर्थनयाऽल्पकेन । सुधावदाप्तेन तदा कथञ्चित् , केचित् कियन्तं समयं नयन्ति ॥९॥ तहुर्लभ ये त्वलभन्त नाम्भः, पपुश्च तहुष्टजलं तृषार्ताः । ते तत्क्षणोत्थज्वरकुष्ठकासश्वासभ्रमाचैमृतिमप्यवापुः ॥१०॥ निमित्तका दैवतसेवकाच, ज्योतिर्विदो मन्त्रविदोऽपि विज्ञाः । पृष्टा नृपाद्यैरवदत् सदब्दवृष्टिः पुरः प्रावृषि नारतस्तु ॥ ११॥ किंकृत्यमूढा नृपमत्रिमुख्या, हाहामहारावसृजः प्रजाश्च । ततः परिक्षिप्तगलैकपाशा, इवा| भवन्नुज्झितजीविताशाः ॥ १२॥ उपप्लवैरित्यतुलैरनल्पैः, कल्पान्तकल्पे किल याति काले । प्रगेऽन्यदाऽऽस्थानगतः क्षमाद्यज्ञप्यत प्राग वनपालपुंभिः॥१३॥ सर्वाकैः पुष्पफलैर्दलैश्च, वनं निशि प्रागदिशि सर्वतोऽद्य । अपम्फलीन्नाथ ! तथा यथान्तः, करप्रचारोऽपि रवेर्भवेन्न ॥ १४॥ एवं चतुर्दिगवनखण्डपालैः, क्षेत्राधिपालैरखिलैश्च हृष्टैः। निपानपालैश्च जलप्रसत्याऽबर्दाप्यतोवीपतिरेककालम् ॥ १५ ॥ पुरान्तरग्रामसमागतैश्चाप्येवं जनैर्विज्ञपितः क्षितीन्द्रः। सविस्मयानन्दरसातिशेषमशेषलोकैः सहितोऽन्वबोभोत् ॥ १६॥ तदा तदात्वापसरत्समग्ररोगा झटित्युद्गतजीविताशाः। प्रजाः प्रजापालयताः प्रमोदान्महोत्सवाद्वैतविधिं वितेनुः ॥१७॥ तादृक्समृद्धेरवितर्कितायाः, सम्यग्निमित्तं न हि वेत्ति कश्चित् । ततः क्षितीशेन जनैश्च मेने, खस्यैव भाग्या
Jain Educati
o
nal
For Private Personel Use Only
Si
jainelibrary.org