________________
श्रीपुञ्जाय पञ्चशतीग्रामाधिपत्यं प्रादायि, तद्वचनाच्च नृपायैस्तत्पित्राद्यैरन्यैरपि भूयोभिर्विभावरीभोजनादि न्ययम्यत, एवं जिनधर्म प्रभावयंश्चिरं भुक्तपञ्चशतीग्रामसाम्राज्यः श्रीपुनः श्रीधरेण साई सौधर्म प्राप्तास्त्रयोऽपि च क्रमात्सिद्धीः॥
॥ इति रात्रिभोजने मित्रत्रयसम्बन्धः ॥
बहुबीजं पम्पोटकादिकमभ्यन्तरपुटादिरहितकेवलबीजमयं तच्च प्रतिबीजं जीवोपमर्दसम्भवादर्जनीयं, ये|| त्वाभ्यन्तरपुटादिसहितबीजमयं दाडिमदिन्दुरकादि तन्नाभक्ष्यतया व्यवहरन्ति १५, अनन्तकायिकानि अनन्त
जन्तुजातघातपातकहेतुत्वात् , यतः-"नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणा, यक्ष्याद्या ज्वलनो प्रायथोत्तरममी सङ्ख्यातिगा भाषिताः। तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथानुक्रम, सर्वेभ्यः शिवगा|
अनन्तगुणितास्तेभ्योऽप्यनन्तांशगाः॥१॥” एतानि च व्यक्त्याऽग्रे दर्शयिष्यन्ते १६, सन्धानं निम्बुकबिल्विकादीनामनेकजीवसंसक्तिनिमित्तत्वात्, सन्धानस्य च व्यवहारवृत्त्या दिनत्रयात्परतोऽभक्ष्यत्वमाचक्षते १७, | घोलवटकानि-आमघोलमिश्रवटकानि उपलक्षणत्वादामगोरससंपृक्तद्विदलानि च केवलिगम्यसूक्ष्मजीवसंसक्तिसम्भवात् , उक्तञ्च संसक्तनिर्युक्तो-“सवेसुवि देसेसुं सवेसुवि चेव तहय कालेसु । कुसिणेसु आमगोरस
Jain Educat
i
onal
For Private & Personal Use Only
W
ww.jainelibrary.org
tol
10