SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ खला इव विद्याद्यतिशायिशक्तयःप्रायः। स्युर्दुनयप्रवृत्ताःप्रोच्चैः पेढालपुत्र इव ॥१॥ तस्य तु तादृग्विद्यालाभेऽपि सुसंवृतस्य संयतवत् अब्धेरिव नैवासीन्मर्यादातिक्रमः क्वापि, क्रमाज्जातस्तस्य पुरुषोत्तमस्य प्रद्युम्न इव पित्रनुयायी पुत्रः सौभाग्याद्यतिशायी, अन्यस्मिन् दिने तस्मिन् नन्दने दुर्दैवादिष्टेन दुष्टेन फणिना दष्टे सर्वथा च तञ्चैतन्ये नष्टे वैद्यादियत्नानां कृपणरत्नानामिव वैफल्ये च दृष्टे जाते च पित्रादीनां प्रकृष्ट हृदयार्तिकष्टे प्रत्युत्पन्नमतिना धनदत्तश्रेष्ठिना चतुरशीतिचतुष्पथेषु पटहेनोद्घोषयामाहे-य एनं विषभृद्विषावेशान्निश्चेतनं स्तनन्धयं प्रोज्जीवयति तस्मै श्रेष्ठी वर्णकोटीमपि प्रदत्ते इति, तदाकर्ण्य वैदेशिकविप्र एकः सविवेकमभाषिष्ट श्रेष्ठिपुरः प्राप्तः-श्रेष्ठिन् ! इतो दशोत्तरयोजनशत्यां मम निवासस्थानं श्रीनिधानं नाम नगरं, तत्र मम गृहे गृहिणीज्ञाता देवतादेशप्राप्ता विषौषधी बहुशः स्पष्टदृष्टप्रत्ययाऽस्ति, मार्गे गमनभिया सा सह नानीता मया, यदि तां दिनोदयादाक् कोऽपि कथमप्यानयति तदा तया नियतमयममृतेनेव जीवयत्येवेति, अथाचष्ट हृष्टःश्रेष्ठीसाधु २भो भूदेव ! यदेवमावेदितवान् भवान् अयं मे नन्दनः संक्रन्दन इवाचिन्त्यशक्तिः खगामिविद्ययाऽतित्वरयाऽप्यानेष्यति तां, तद्देहि खगृहिण्या हस्ताक्षराणि येन सा तामर्पयत्येतस्मै, ततो विस्मितमुदितो यावद्विजः सज्जीस्यात्तल्लेखलेखनाय तावदुवाद महानन्दः सुकृतककन्दः-तात! शतयोजनमात्रदिग्वतोऽहं श्रितोऽपि पुत्रमोहं कथं नाम तामानयामि ततः स्थानात् , खीकृतनिर्वाहपूर्वमेव सर्वं साधितं साधिष्ठतां दधातीत्युपायान्तरं किश्चिद्विचिन्तयत तातपादाः, तातोऽप्यूचे-वत्स ! वियद्गमने जीवविराधनाधभावात् का हन्त शत Jain Educati o nal For Private Personal Use Only ww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy