SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ उक्तानि पञ्चाणुव्रतानि, तानि च श्राद्वधर्मद्रुमस्य मूलकल्पत्वान्मूलगुणा उच्यन्ते, तदुपचयकारीणि दिग्व्रतादीनि तु सप्तापि शाखाप्रशाखाकल्पत्वादुत्तरगुणाः, तत्र त्रयाणां गुणव्रतानामाद्यस्य मूलतस्तु षष्ठस्य दिग्विरतिव्रतस्यातीचारनिन्दनार्थमाहगमणस्स य परिमाणे दिसासु उढे अहे अतिरिए य । वुडी सइअन्तरद्धा पढमंमि गुणवए निदे॥१९॥ 'गमणेति ॥ 'गमनस्य परिमाणे' गतेरियत्ताकरणे चशब्दाद्यदतिक्रान्तं, क विषये ?-दिक्षु, एतदेव विशे-18 षतः प्राह-'उडे'ति ऊर्द्ध गिरिशृङ्गादेोजनद्वयादिना गृहीतप्रमाणस्यानाभोगादिनाधिकगमनमूर्द्धदिकप्रमाणातिक्रमणरूपः प्रथमोऽतिचारः १, एवमधस्तियेग्दिशोरप्यतिचारद्वयं वाच्यम्, अनावश्यकचूर्युक्तो विधि-18 रयम्-'ऊर्द्ध' खीकृतप्रमाणादुपरि वृक्षे गिरिशिखरे वा वानरविहङ्गमादिर्वस्त्राभरणादि गृहीत्वा याति तत्र न कल्पते गन्तुं, यदि तत्तस्मात्पतितमन्येनानीतं वा तदा कल्पते ग्रहीतुम् , एतचाष्टापदसंमेतार्बुदोजयन्तचित्रकूटानमन्दरादौ संभवति, एवमधोदिशि भूमिगृहरसकूपविवरादौ तिर्यग्दिशि च पूर्वादिचतुर्दिग्रूपायां वाच्य"मिति, यो विवक्षितक्षेत्रादधिकगमनं न करोमि न च कारयामीति नियमवान् स विवक्षितक्षेत्रात्परतः खयं गमनतः परेण नयनानयनाभ्यां च दिकममाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाभावात्परेण नयनानयनयोने दोष इत्युक्तं योगशास्त्रवृत्ती ३, 'बुढि'त्ति क्षेत्रवृद्धिः, अनाग्रे च Jin Education icona For Private & Personal Use Only ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy