SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति० सूत्रम् ॥१०७॥ Jain Educatio | नाप्यलं स्वव्रतलोपिना ॥ ५५ ॥ सुभोज्येनापि किं तेन, सुभोग्येनापि तेन किम् ? । भोक्तुर्भुक्तेन येन स्यादस|माधान सम्भवः १ ॥ ५६ ॥ तदेव ! देवनिर्माल्यमिव नैवाहमाद्रिये । कोशाध्यक्षत्व मध्यक्षं, कोशमांहससंहतेः ॥५७॥ राज्ञामाज्ञाप्रधानत्वादधान्तः कोपभृन्नृपः । अवादीदनवद्येऽस्मिन्, दोषः सत्कर्मणीव कः ? ॥ ५८ ॥ विश्वाधारस्य | मद्भाण्डागारस्य परिरक्षणे । पुण्यं प्रत्युत तत्तस्मिन् को नाम नियमः सताम् ? ॥ ५९ ॥ गृहाण श्रीगृहिकतां, तद्विहाय कदाग्रहम् । प्रसह्यापि प्रदाताऽस्मि, तद्विमर्शो वृथाऽत्र कः ? ॥ ६० ॥ श्रुत्वेति तात्त्विकोत्तंसः, सोऽन्तश्चित्तमचिन्तयत् । धिक् पराधीनतादग्धान्, मुग्धान् संसारवासिनः ॥ ६१ ॥ प्रव्रजामि पुरा चेत्तत्कुतस्त्येयं विडम्बना । मुनीन्द्रा ह्यवनीन्द्रादेर्न बिभ्यत्यभियोगतः ॥ ६२ ॥ किं करोम्यथ सद्योऽद्याप्युचितं चिन्त| येऽथवा । इत्यालोचं च लोचं च स चक्रे पाचमौष्टिकम् ॥ ६३ ॥ देवतादन्तवेषश्च, दीक्षामादन्त सत्तमः राज्ञोऽग्र एवं नियमस्याहो निर्वाहसाहसम् ॥ ६४ ॥ प्रणम्याथ क्षमेशेन, क्षमीशः क्षमितः क्रमात् । चिरमाराध्यमाराध्य, सिद्धः श्राक् सिद्ध केवलः ॥ ६५ ॥ पञ्चमव्रतविधौ धनाह्वयश्रेष्ठिनश्चरितमित्यवेत्य भोः ! । क्षोभकृत् त्रिजगतोऽपि विस्फुरन्, लोभवारिनिधिरार्य ! वार्यताम् ॥ ६६ ॥ ॥ इति पञ्चमाणुव्रते घनश्रेष्ठिकथा ॥ national ॥ इति श्रीतपागच्छनायक परमगुरु श्री सोमसुन्दरमुरिशिष्य श्री भुवनसुन्दरमूरि विनेयोपाध्यायश्री रत्नशेखरगणिविरचितायां श्राद्धप्रतिक्रमणसूत्रवृत्तावणुत्रतपञ्चकाधिकारो द्वितीयः ॥ ग्रन्थाग्रम् ।। ३५६१ ।। For Private & Personal Use Only पञ्चमाणुव्रते धनष्ठिकथा १४०-१६६ ॥१०७॥ www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy