SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Jain Educatio सौधं, निधिद्रव्यायधापयत् ॥ ७८ ॥ शेषं निधिधनं लक्षा, नवतिं तु नवाधिकाम् । वीक्ष्यैषं विस्मयानन्दखेदो| द्वेगैर्व्यचिन्तयत् ॥ ७९ ॥ कायक्लेशं मुधिकया, सेहेऽहं दुस्सहं बहुम् । निर्भाग्यस्य कथं सिद्ध्येत्, कोटीश्वरमनोरथः १ ॥ ८० ॥ यतः - "वनकुसुमं कृपणश्रीः कूपच्छाया सुरङ्गधूली च । तत्रैव यान्ति विलयं मनोरथा भा ग्यहीनानाम् ॥ ८१ ॥" इत्यादिचिन्ताचान्तः स, तस्थौ श्रान्त इवाधिकम् । कियत्कालमथो कोटीश्वरान् लक्षेश्वरैः कचित् ॥ ८२ ॥ अभ्युत्थानासनाद्याभिः सन्मान्यान् प्रतिपत्तिभिः । दृष्ट्वा कोट्यतिभृत्प्रोचैः कञ्चिद्यो गीन्द्रमैक्षत ॥ ८३ ॥ युग्मम् ॥ सम्पोष्य बहु सन्तोष्य, तमप्राक्षीच दक्ष ! हे । समाख्याहि समीक्ष्याहं, भावी कोटीश्वरो न वा ? ॥ ८४ ॥ सोऽपि ध्यानं नाटयित्वा स्पष्टमाचष्ट शिष्ट ! ते । भूयस्यो धनदस्येव, भाविन्यो धनकोटयः ॥ ८५ ॥ कथं कथमिति प्रोक्ते, श्रेष्ठिना लोलुपात्मना । योगी जगौ जगत्यामप्युपायोऽत्रक एव हि ॥ ८६ ॥ अन्येष्वनर्थं ते पश्याम्ययं तु विषमोऽप्यहो ? । तव प्राचीनदुष्कर्मक्षयतः सिद्धिमेष्यति ॥ ८७ ॥ प्रसह्य सद्यः स्वामिन्! मे, तमेवोपायमादिश । इत्युचैः सादरे तस्मिन्, सोपरोधं जजल्प सः ॥ ८८ ॥ मध्येऽद्रि रसकूपीस्थरसस्यैकेन बिन्दुना । लोहभारसहस्राणि सुवर्णीस्युः क्षणादपि ॥ ८९ ॥ स च सिद्धरसः प्रायो, देवानामपि दुर्लभः । कष्टप्राप्यः परं कापि, श्रेष्ठ्यथाचष्ट हृष्टहृत् ॥ ९० ॥ निष्फलान्यपि कष्टानि, सह्यन्ते स्म मया भृशम् । सुसहं सफलं कष्टं, कायः कष्टसहश्च मे ॥ ९१ ॥ सुमहन्महिषीपुच्छं, श्रेष्ठिनाऽऽनाय्य योगिराट् । | षण्मासावधि तैलान्तः, प्रक्षिप्यास्थापयत्ततः ॥ ९२ ॥ रसेन्द्रकूपिकाकल्पपुस्तिकां साम्प्रदायिकीम् । लावा national For Private & Personal Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy