________________
Jain Education
नवनवतिरेव तन्मूल्य मौच्यत ॥ ४७ ॥ यत्तस्य कोटिमूल्यस्याप्युष्णोर्वन्तर्निवासतः । तेजोऽहीयत मूल्यं च, मूल्यं हि महसा मणेः ॥ ४८ ॥ कोट्याशा कुहनाच्चैष, खेदमेदखितामधात् । दध्यौ च धिगियत्क्लेशा वेशात्कोटयपि नाजनि ॥ ४९ ॥ यद्वा मम वणिज्यायामिज्यायामिव हिंसया । प्रत्युतानर्थ एवाभून्नार्थः कोऽपि तु सिद्धवान् ॥५०॥ तदुपायान्तरं पश्यामीति चिन्तातुरं चिरम् । ज्ञात्वा धूतों धातुवादी, कोडप्यवादी समन्यदा ॥ ५१ ॥ विदधासि सुधा चिन्तां सुधा खेदं दधासि च । श्रेष्टिस्तवेष्टमाधास्ये, धातुर्वादप्र| सादतः || ५२ || आप्तोक्तमिव तत्तत्त्वं मन्यमानस्तदुक्तितः । समग्रां धातुसामग्रीमव्यग्रीभूतहृद्व्यधात् ॥५३॥ स ततः कृत्रिमं हेम, कियनिर्माय मायया । परावर्त्त्यार्पयत्तस्मै, परीक्षार्थमकृत्रिमम् ॥ ५४ ॥ चतुष्परीक्षावीक्षातस्तुष्टः श्रेष्ठ्यप्यमन्यत । तमाप्तमेव सोऽप्याशु, तादृक् खर्णं बहु व्यधात् ॥ ५५ ॥ दृषत्खण्डानिवाखण्डान् | स्वर्णखण्डानखण्डमुत् । राशीचक्रे रहः श्रेष्ठी, प्रत्यहं भूगृहान्तरे ||२६|| कोऽपि द्रव्यार्जनोपायः, कायक्लेशं विनाऽ| प्यहो । हृष्यन्निति स धूर्त्ताय, महाभक्तिमतन्तनीत् ॥ ५७ ॥ सारः परोपकारोऽत्रेत्यादिवादी स दाम्भिकः । विदधन्निःस्पृहं दम्भं, विश्रम्भं तमनीनयत् ॥५८॥ यतः - "व्रतदम्भः सुतदम्भः स्नातकदम्भः समाधिदम्भश्च । निःस्पृहदम्भस्य तुलां व्रजन्ति नैते शतांशेन ॥५९॥” तद्वेश्मसारं रत्नादि, मुषित्वा परिमोषिवत् । सोऽन्यदा दुष्टधीर्नष्टः, श्रेष्ठ्यभूत् कष्टकष्टितः ॥ ६० ॥ शङ्काकुलः काञ्चनं तत् पर्येक्षिष्ट च यावता । तावता कृत्रिमं ताम्रमयमेव विवेद सः ॥ ६१ ॥ मुषितो मुषितोऽस्मीति पूत्कुर्वन् पूजनैर्न कैः । उरः शिरः प्रकुहाकः, सोऽतिलोभादहस्यत ?
tional
For Private & Personal Use Only
w.jainelibrary.org