________________
"गोशतादपि गोःक्षीरं, मानं मूढशतादपि। मन्दिरे मञ्चकस्थानं, शेषः परपरिग्रहः॥१॥द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्यासनं करिवरस्तुरगो रथो वा । काले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥२॥" परिग्रहस्य स्वल्पत्वे च खल्पचिन्तानिर्भयत्वादयो गुणाः, यतः-"जह २ अप्पो लोहो जह २ अप्पो परिग्गहारंभो । तह २ सुहं पवडइ धम्मस्स य होइ संसिद्धी ॥१॥" तस्मादिच्छाप्रसरं निरुध्य सन्तोषपोषायैव यतितव्यं, सुखस्य सन्तोषमूलत्वात्, भणितं च-"आरोग्गसारिअं माणुसत्तणं सच्चसारिओ धम्मो । विजा निच्छयसारा सुहाई संतोससाराई ॥१॥ यदि यत्रैव तत्रैव, यथैव च तथैव च । रतिं त्वं चित्त! बध्नासि, नासि दुःखस्य भाजनम् ॥२॥” ततः सन्तोषसेतुबन्धेन लोभमहाम्भोधिमुद्धेलतया प्रसरन्तं विनिवार्य स्वीकार्यमेतद्रुतं यथाशक्ति सम्यक् प्रतिपाल्यं च, प्रत्यहं पुनः पुनः खनियमस्मरणं यथाऽवसरसम्भवं तत्संक्षेपणादिना, अथ स्वीकृतपरिमाणादधिकधनधान्यादिसमृद्धिसम्भवे किं विधेयं श्राद्धेन ?, उच्यते, स्वीकृतपरिमाणादधिकं धनादि यद्यदुत्पद्यते तत्तत्सर्व धर्मव्यये एव नियोज्यं, न तु व्यवसायभोगादो, एवं च न कश्चिदेतद्वतस्यातिचारः, दानादिसुकृताराधनेन चञ्चलायाः कमलाया नियन्त्रणं कृतं स्यात्, यदुक्तं नैषधेऽपि-"पूर्वपुण्यविभवव्ययबद्धाः, सम्पदो विपद एवं विमृष्टाः ।पात्रपाणिकमलार्पणमासां, तासु शान्तिकविधिविधिदृष्टः ॥२॥” तदेवमेतद्वतस्यात्रापि सन्तोषसौख्यलक्ष्मीस्थैर्यजनप्रशंसादि फलं परत्र तु नरामरसमृद्धिसिद्ध्यादि, अतिलोभाभिभूततया चैतगतस्यावीकृतौ विराधनायांवा दारिद्यदास्यदौर्भाग्यदुर्गत्यादीत्यष्टादशगाथार्थः॥१८॥
Jain Education
ona
For Private & Personel Use Only
Paw.jainelibrary.org