________________
श्राद्धम
ति०सूत्रम्
॥ ८४ ॥
Jain Education I
एवातिचाराः पञ्च वा तत्राना भोगादिना परपुरुषं ब्रह्मचारिणं स्वपतिं वाऽभिसरन्त्याः प्रथमोऽतिचारः, यदा तु स्वपतिर्वारकदिने सपत्न्या परिगृहीतो भवति तदा सपत्नीवारकं विलुप्य तं भुञ्जानाया द्वितीयोऽपि, एवं पञ्च, उक्तञ्च - "परदारवजिणो पंच हुंति तिन्नि उ सदा सन्तुट्टे । इत्थी तिन्नि पंच व भङ्गविगप्पेहिं | नायवा ॥ १ ॥ " यद्वा स्वयं भाटीप्रदानादित्वरकालं स्वीकृतायां वेश्यायां खदारबुद्ध्या गमनमित्वरपरिगृहीतागमनं तथा च खदारसन्तोषिणोऽपि द्वितीयोऽतिचारः, अनाभोगातिक्रमादिना प्रथमोऽपि, एवं स्वदारसन्तोषिणोऽपि पञ्चातिचाराः संभवन्ति, तथा च सूत्रम् - "सदार संतोसिस्स इमे पंच अइआरा जाणिअवा न समायरिअवत्ति, एतद्विषये यद्वद्वमित्यादि प्राग्वत् । शक्तौ सत्यां गाङ्गेयादिवद्वाल्यतोऽपि विशुद्धं श्राद्धेन शीलमेव पालनीयं महाफलत्वाद्विशिष्य च दुष्पालतया गृहस्थस्य, यतः - " जो देइ कणयकोडिं अहवा कारेड कणयजिणभवणं । तस्स न तत्तिअ पुन्नं जत्तिअ बंभवए धरिए ॥ १॥ देवदाणवगंधवा, जक्खरक्खसकिन्नरा । बंभयारिं नर्मसंति, दुक्करं जे करंति तं ॥२॥ आणाईसरिअं वा इड्डी रज्जं च कामभोगाय । कित्ती बलं च सग्गो आसन्ना सिद्धि वंभाओ ॥ ३ ॥ कलिकारओवि जणमारओवि सावज्जजोग निरओऽवि । जं नारओवि | सिज्झइ तं खलु सीलस्स माहृष्पं ॥ ४ ॥ परसमयेऽपि - " एकरात्र्युषितस्यापि, या गतिर्ब्रह्मचारिणः । न सा ऋतुसहस्रेण, वक्तुं शक्या युधिष्ठिर । ॥१॥ एकतश्चतुरो वेदा, ब्रह्मचर्यं तु एकतः । एकतः सर्वपापानि, मद्यमांसं तु एकतः ॥ २ ॥” यजुर्वेदेऽपि मोक्षरुचिप्रोक्तं- 'सत्येन लभ्यस्तपसा ब्रह्मचर्येण चैषः ।" इति दृश्यते च सम्प्र
For Private & Personal Use Only
| चतुर्थाणुव्रतम् गाथा १६
॥ ८४ ॥
ninelibrary.org