________________
व्रतं स्वीकृत वा इति भावनया तु
मश्रावकस्मोचित
'विवाह'त्ति परकीयापत्यानां कन्याफललिप्सया स्नेहादिना वा विवाहस्य करणं परविवाहकरणं, खदारसन्तो|षिणा खकलनात्परदारवर्जिना च खकलनवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्य, नैव कारयामीति यदा व्रतं स्वीकृतं स्यात्तदाऽन्यविवाहकरणेऽर्थतो मैथुनकारणं तेष्वनुष्ठितं स्यादिति भङ्गः विवाह एवायं मया विधीयते न मैथुनं कार्यते इति भावनया तु व्रतसापेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, स्वापत्येष्वपि यद्यन्यश्चि-13 न्ताकर्ता स्यात्तदा विवाहकरणनियम एव सुश्रावकस्योचितीमश्चति, यथा कृष्णचेटकमहाराजयोः, अन्यचिताकभावे तु यथानिर्वाहं विवाहसङ्ख्या नियमो युक्तः, अथवा सत्यपि सज्जकलने सन्तोषाभावात् पुनः परस्याः स्वयं विवाहनं परविवाहकरणं खदारसन्तुष्टस्यातिचारः ४, 'तिवअणुराग'त्ति कामेषु-शब्दरूपेषु भोगेघु-गन्धरसस्पर्शेषु तीव्रानुरागः-अत्यन्ताध्यवसायः कामभोगतीव्रानुरागः, तस्माच कृतकृत्योऽप्यतृप्ततया योषामुखकक्षोपस्थादि चिरं सेवते केशाकर्षणप्रहारदानदन्तनखक्षतादिभिर्वा मदनमुत्तेजयति कामवृद्धिकारीण्यौषधानि वा करोति, श्रावको हि पापभीरुतया ब्रह्मचर्य चिकीर्षुरपि वेदोदयासहिष्णुतया खदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेणैव च वेदोपशान्तिसम्भवादधिकं कामविस्तारं खयोषायामप्यनङ्गक्रीडातीव्ररागादिक सर्व परिहरति, नहि तत्करणे कश्चिद्गुणः प्रत्युत बलक्षयाद्यनर्थोऽपि, यतः-"कम्पः खेदः श्रमो मूछी, भ्रमिर्लानिर्बलक्षयः । राजयक्ष्मादयश्चापि, कामाद्यासक्तिजा रुजः ॥ ५ ॥” इति, परदारवर्जिनः पञ्चैतेऽतीचाराः, स्वदारसन्तोषिणस्तु त्रय एवान्त्याः, आद्यौ तु भङ्गावेव, एवं स्त्रिया अपि वपुरुषसन्तोषस्यैव भावात्रय
14)
Jain Education
a
l
For Private Personal Use Only
Jiainelibrary.org