SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ रिकवैक्रियस्त्रीणां यः सम्भोगस्तत्स्थूलम् , अथवा मैथुनविरतिरूपं ब्रह्मचर्य द्विधा-सर्वतो देशतश्च, सर्वथा सर्व-11 स्त्रीणां मनोवाकायैः सङ्गत्यागः सर्वतो ब्रह्म तदितरदेशतः, तत्रोपासकः सर्वतोऽशक्तौ देशतस्तत्प्रतिपद्यते, तदेव च दर्शयति-चतुर्थेऽणुव्रते 'नित्यं सदा परेषां-आत्मव्यतिरिक्तानांमनुष्याणां देवानां तिरश्चांच ये दारा:परिणीतसाहीतभेदभिन्नानि कलत्राणि तेषु गमनम्-आसेवनं तस्य विरतेरित्यादि तथैव, यद्यप्यपरिगृहीतदेव्यस्तिरश्श्यश्च काश्चित्सङ्ग्रहीतुः परिणेतुश्च कस्यचिदभावाद्वेश्याकल्पा एव भवन्ति तथाऽपि प्रायः परजातीयभोग्य|त्वात्परदारा एव ता इति वर्जनीयाः, खदारसन्तोषिणस्तु परिणीतस्त्रीव्यतिरिक्ताः सर्वा अपि परदारा एव, दारशब्दस्योपलक्षणत्वात् स्त्रियं प्रति स्वपतिव्यतिरिक्त सर्वपुरुषवर्जनमपि द्रष्टव्यमिति पञ्चदशगाथार्थः ॥१५॥ अस्यातिचारान् प्रतिक्राम्यति-- अपरिग्गहिआइत्तर अणंगवीवाह तिवअणुरागे। चउत्थवयस्सइआरे पडिकमे देसि सवं ॥ १६॥ ___ 'अपरी'ति॥ अपरिगृहीता विधवाकन्याद्या तस्यामियं परस्त्रीन भवतीति बुद्ध्या गमनमपरिगृहीतागमनम् १, 'इत्तर'त्ति इत्वरम्-अल्पकालं भाटीप्रदानतः केनचित्ववशीकृतायां वेश्याथामियं साधारणा स्त्रीतिबुद्ध्या गमनमित्वरपरिगृहीतागमनम् २,'अणंगत्ति अनङ्ग:-कामस्तत्प्रधानाः क्रीडा-अधरदशनकुचमर्दनचुम्बनालिङ्गानाद्याः परदारेषु कुर्वतोऽनङ्गक्रीडा ३, श्रावकस्य हि पराङ्गनाङ्गसविकारदर्शनाद्यपि न कल्पते, यतः प्रोक्तम्-“छन्नंगदं Jain Education na For Private & Personel Use Only Mainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy