SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ स एव ग्राह्य इति भाव इति पञ्चमोऽतिचारः ५। एतेषु क्रियमाणेषु यद्धमित्यादि तथैव, 'तइअंमि अणुवए। निंदे' इति चतुर्थपादपाठोऽपि दृश्यते, अर्थस्तूत्तान एव, एतेषु पञ्चखपि मया वाणिज्यादिना वणिक्कलैव क्रिया। माणाऽस्ति न तु चौर्य खात्रखननाद्यकरणादित्यभिप्रायेण व्रतसापेक्षत्वाल्लोकेऽपि चौरोऽयमिति व्यपदेशाभा-11 वाचातिचारताऽवगन्तव्या, यद्वा स्तेनाहृतादयः पश्चाप्यमी राजनिग्रहहेतुत्वादिना व्यक्तचौर्यरूपा एव केवलमनाभोगादिनाऽतिक्रमादिना विधीयमाना अतिचारतया व्यपदिश्यन्ते, श्रावकेण चातिचारपरिहारार्थमष्टादशचौरप्रसूतयोऽपि वर्जनीयाः, ताश्चैवमाहु:-"भलनं १ कुशलं २ तर्जा ३, राजभागो ४ऽवलोकनम् ५। अमार्गदर्शनं ६ शय्या ७, पदभङ्ग ८ स्तथैव च ॥१॥ विश्रामः ९पादपतनं १०, वासनं ११ गोपनं १२ तथा । खण्डस्य खादनं १३ चैव, तथाऽन्यन्माहराजिकम् १४ ॥२॥ पद्या १५ न्यु १६ दक १७ रज्जूनां १८, प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया, अष्टादश मनीषिभिः ॥३॥” व्याख्या-तत्र 'भलनं' न भेतव्यं भवता त्वयि विषयेऽहं भलिष्यामि इत्यादिवाक्यैश्चौर्यविषये प्रोत्साहनं १, कुशलं मिलितानां सुखद: खादिप्रश्नः २, 'तर्जा' हस्तादिना चौर्यार्थ प्रेषणादिसञ्ज्ञाकरणं ३, 'राजभागः' राजभोग्यद्रव्यापहवः ७४, 'अवलोकना' हरतां चौराणामपेक्षावुद्ध्या दर्शनम् ५, 'अमार्गदर्शनं' चौरमार्गप्रच्छकानां मार्गान्तरक थनेन तदज्ञापनं ६, 'शय्या' शयनीयसमर्पणादि ७, 'पदभङ्गः' पश्चाच्चतुष्पप्रचारादिद्वारेण ८, 'विश्रामः' Jain Education anal For Private Personal Use Only Ajainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy