SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ इदमेव दर्शयति-तृतीयेऽणुव्रते स्थूरकं राजनिग्रहादिहेतुः परद्रव्यहरणं तस्य विरतेः, उत्तरार्द्ध प्राग्वदिति त्रयोS/दशगाथार्थः ॥ १३ ॥ एतस्यातिचारपञ्चकं प्रतिक्रामति तेनाहडप्पओगे तप्पडिरूवे विरुद्धगमणे अ । कूडतुलकूडमाने पडिक्कमे० ॥ १४ ॥ 8 'तेने ति ॥ 'स्तेनैः' चौरैराहृतं-स्थानान्तरादानीतं किञ्चित्कुमादि महा काणक्रयेण मुधिया वा यद्गृह्यते । तत् स्तेनाहृतं १। 'पयोग'त्ति सूत्रस्य सूचकत्वात्तस्करप्रयोगः किमद्य कल्ये यूयं निर्व्यापाराः? युष्मदानीतमोषस्य यदि विक्रायको नास्ति तदानीमहं विक्रेष्ये इत्यादिवचनैः कुशिकाकर्तरिकाघुर्घरकादिचौरिकोपकरणशम्बलाद्यर्पणादिना वा तस्कराणां चौर्यक्रियायां प्रेरणं प्रयोगः, एवं करणे हि तत्त्ववृत्त्या सोऽपि चौर एव, तथा च नीति:-"चौर १ चौरापको २ मन्त्री३, भेदज्ञः ४ काणकक्रयी ५ । अन्नदः ६ स्थानद ७श्चेति, चौरः सप्तविधः स्मृतः ॥२॥” इति २, 'तप्पडिस्वेत्ति तस्य-विक्रेयवस्तुनः प्रतिरूपं-सदृशं तत्र व्रीहीणां पलनि नाम धान्यं घृतस्य वसा तैलं वा तैलस्य मूत्रं हिङ्गोः खदिरादिलोष्ठश्चणकादिपिष्टं गुन्दादि वा कुङ्कुमस्य कृत्रिमकुङ्कुम कुसुम्भादि वा मञ्जिष्ठादेश्चित्रकादि जात्यकर्पूरमणिमौक्तिकसुवर्णरूप्यादीनां कृत्रिमकर्पूरमणिमौक्तिकसुवर्णरूप्यादि तत्प्रतिक्षेपेण व्यवहारस्तत्प्रतिरूपव्यवहारः, बहुमूल्येषु बीह्यादिष्वल्पमूल्यपलंज्यादि प्रक्षिप्य बीद्यादिमूल्येनैव विक्रयादिकरणमित्यर्थः, यद्वा स्तेनसकाशाद्हीतानां Jain Education in a For Private & Personal Use Only Jinelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy