SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ विस्सासकारणं परमं । सच्चं सग्गद्दारं सचं सिद्धिह सोवाणं ॥ २ ॥” लोकेऽपि - "सत्येन धार्यते पृथ्वी, सत्येन तपते रविः । सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ॥ ३ ॥ " दृश्यते हि सम्प्रत्यपि सत्यवादिनां दिव्यादौ विशुद्धताराजप्रजापूजा श्लाघादि, एतस्याग्रहणेऽतिचरणे वा वैपरीत्येन फलं, भण्यते च - "जं जं वच्चइ जाई अप्पिअवाई तहिं २ होइ । न य सुणइ सुहे सद्दे सुणइ असोअबए सद्दे ॥ १ ॥ दुग्गंधो पूइमुहो अणिवयणो अ फरुसवयणो अ । जलएलमृअमम्मण अलिअवयणजपणे दोसा ॥ २ ॥ इहलोइच्चिअ जीवा जीहाछेअं वहं च बंधं वा । अयसं घणनासं वा पावंति य अलिअवयणाओ ॥ ३ ॥" असत्यवादी हि विनीतताप्रशान्ततादिबहुगुणोपेतोऽपि सर्वत्रा विश्वास्यतया न लौकिकव्यवहारे नापि धर्मेऽधिकारितामर्हति यतः - "लाउअबीअं इक्कं नासह भारं गुडस्स जह सहसा । तह गुणगणं असेसं असचवयणं विणासेइ ॥ १ ॥ वायसपयमिक्कंपि हु सामुद्दिअलक्खणाण लक्खपि । अपमाणं कुणइ जहा तह अलिअं गुणगणं सयलं ॥ २ ॥ तालपुढं गरलाणं जह बहुवाहीण खित्तिओ वाही । दोसाणमसेसाणं तह अविगिच्छो मुसादोसो ॥ ३ ॥” श्रूयते हि कस्यापि श्रमणोपासकस्य सूनुर्निर्द्धर्मा पित्रा प्रसह्य गुरुपार्श्वे नीतो धूर्त्ततया गुरुक्तान् सर्वानपि द्वादशव्रत नियमान् प्रतिबुद्ध इव सादरं प्रतिपद्य नियम| दायर्थं गुर्वादिभिः प्रशस्यमानः प्राह-एतेष्वेको द्वितीयव्रतनियमो मम मुत्कलो दुष्पालत्वाद्गृहस्थस्य, एतावता | सर्वमिदमसत्यमेव मयोक्तमिति तस्याशयः, ततश्चायोग्योऽयमित्युपेक्षितो गुरुपत्रादिभिः, यतो हैमं वच:- "पारदारिकदस्यूनामस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः प्रतीकारो न विद्यते ॥ १ ॥ एकत्रासत्यजं पापं, Jain Educatimational For Private & Personal Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy