________________
न्यासापहारस्य चादत्तादानवे सत्यपि वचनस्यैव प्राधान्यविवक्षणान्मृषावादत्वम् ४ तथा लभ्यदेयविषये साक्षीकृतस्य लश्चामत्सरादिना कूटसाक्ष्यप्रदानात्कूटसाक्षित्वमत्र परत्र भवेऽप्यनर्थहेतुर्वसुराजस्येवाजशब्दार्थसाक्ष्ये लोकेऽप्युच्यते-"ब्रूहि साक्ष्यं यथावृत्तं, लम्बन्ते पितरस्तव । त्वदीयवचनस्यान्ते, पतन्ति न पतन्ति च ॥१॥" न्यासापहारकूटसाक्षित्वयोश्च द्विपदाद्यलीकान्तर्भावेऽपि लोकेऽप्यतिनिन्द्यत्वात्पृथगुपादानं, तथा च |लौकिकवचनं-"कूटसाक्षी सुहृद्रोही, कृतघ्नो दीर्घरोषणः । चत्वारः कर्मचाण्डालाः, पञ्चमो जातिसम्भवः॥१॥"
तथा-"हस्ते नरकपालं ते, मदिरामांसभक्षिणि !। भानुः पृच्छति मातङ्गि!, किं तोयं दक्षिणे करे? ॥२॥ 18चाण्डाली प्राह-"मित्रद्रोही कृतघ्नश्च, स्तेयी विश्वासघातकः। कदाचिचलितो मार्गे, तेनेयं क्षिप्यते छटा ॥२॥
कूटसाक्षी मृषावादी, पक्षपाती झगडके। कदाचिच्चलितो मार्ग, तेनेयं क्षिप्यते छटा ॥३॥” एतस्य पञ्चविधालीकस्य यद्वचनं-भाषणं तस्य विरतेः, 'आयरिमित्यादि प्रागुक्तवदित्येकादशगाथार्थः ॥११॥ अस्यातीचारान् प्रतिक्रामति
सहसा रहस्सदारे मोसुवएसे अ कूडलेहे अ। बीअं वयस्स अइयारे पडिक्कमे० ॥ १२ ॥ 'सहसेति ॥ 'सूत्रं सूचनकृ'दिति वचनात्सहसाशब्देन सहसाऽभ्याख्यानम् रहःशब्देन रहोऽभ्याख्यानं 81 खदारशब्देन च स्वदारमन्त्रभेद उच्यते, तत्र सहसा-अनालोच्याभ्याख्यानं-चौरोऽयं पारदारिकोऽयमित्याद्य
श्रा.प्र.सू. ११||
For Private
Personal Use Only
N
ainelibrary.org