________________
श्राद्धप्रति० सूत्रम् ॥ ६० ॥
Jain Education
ष्टविवक्षासमुद्भवः स्थूलस्तद्विपरीतः सूक्ष्मः, आह हि - "दुविहो अ मुसावाओ सुमो धूलो अ तत्थ इह सुमो । | परिहासाइप्पभवो धूलो पुण तिवसंकेसा ॥१॥" श्रावकस्य सूक्ष्मे मृषावादे यतना, स्थूलस्तु परिहार्य एव, यदावश्यकचूर्णिकृत् -"जेण भासिएण अप्पणो परस्स वा अतीव वाघातो अतिसंकिलेसो अ जायते तं अट्ठाए अण| ट्ठाए वा ण वएज" ति । अथ सूत्रगाथा व्याख्या - द्वितीयेऽणुव्रते 'परिस्थूरकम्' अतिबादरं लोकेऽप्यकीर्त्त्यादि| हेतुरलीकवचनं तच्च कन्यालीक १ गवालीक २ भूम्यलीक ३ न्यासापहार ४ कूटसाक्षित्व ५ भेदात् पञ्चप्रकारं, तत्र द्वेषादिभिरविषकन्यां विषकन्यां विषकन्यां वाऽविषकन्यां सुशीलां वा दुःशीलां दुःशीलां वा सुशीलामित्यादि वदतः कन्यालीकम् १ । एवमल्पक्षीरां गां बहुक्षीरां बहुक्षीरां वाऽल्पक्षीरामित्यादि वदतो गवालीकम् २ । | परसत्कां भूमिमात्मादिसत्कामात्मादिसत्कां वा परसत्काम् ऊषरं वा क्षेत्रमनूषरमनूषरं वोषरमित्यादि वदतो भूम्यलीकम् ३ । उपलक्षणानि चैतानि तेन कन्यागोभूम्यलीकवत्सर्वद्विपदचतुष्पदापदालीकान्यपि वर्ज्यतया | ज्ञेयानि, आहुरपि - "कन्नागणं दुपयाण सूअगं चउपयाण गोवयणं । अपयाणं दद्वाणं सवाणं भूमिवयणं तु ॥ १ ॥” यद्येवं तर्हि द्विपदचतुष्पदापदग्रहणमेव सर्वसङ्ग्राहकं किमिति न कृतं ?, सत्यं, किन्तु कन्याद्यलीकानां लोकेऽति| गर्हितत्वाद्विशेषेण वर्जनार्थमुपादानम्, कन्याऽलीकादौ च भोगान्तरायद्वेषवृद्ध्यादयो दोषाः स्फुटा एव, तथा न्यासस्य धनधान्यादिस्थापनिकाया अपहारः - अपलापो न्यासापहारो महापातकहेतुः, न्यासकर्त्ता हि परमाप्तोऽयं ममेति साक्षिणं विनाऽपि स्वधनं न्यासीकुरुते, स च महालोभाभिभूतो विश्वासघातमपि कृत्वा तदपलपति,
For Private & Personal Use Only
११ गाथायां स्थूल
मृषावादातिचाराः
॥ ६० ॥
jainelibrary.org