________________
वसिद्धिनिधिः सुधियाम् ॥ ७० ॥ अथ सोऽन्यदा निजहदाऽध्यासीद् यद्देशनाऽमृतादासीत् । दासीव दिव्यऋद्धिर्ममेयमायाति स गुरुश्चेत् ॥७१॥ स्यां तत्कृतार्थ इति तद्ध्यानाकृष्टा इवाशु समवसृताः। ते तत्र श्रीगुरवः स्पृहैव महतां विलम्बोऽर्थे॥७२॥ युग्मम् । वनपालज्ञप्ततदागम क्षमापाल उल्लसन्नथ सः।आडम्बरेण गुरुणा जगाम सुगुरूंश्च विननाम ॥७३॥ व्यज्ञपयच्च संविज्ञः पुण्यनिधे! त्वत्प्रसादतः प्रापम् । इयती समृद्धिमिद्धामधिकं निन्द्योऽपि सद्योऽहम् ॥ ७४॥ अवधेहि धेहि करुणां कारुण्यनिधे! निधेहि सिद्धौ माम् । हृदि संमिधेहि मद्धितमभिधेहि विधेहि मयि तुष्टिम् ॥ ७५ ॥ अथ तं प्रणतं नृपति सुकृतैकरतं विचिंत्य सत्यगिरा । गुरुरगृणाद्धन्यस्त्वं धर्मे धीर्यस्य ते सुधियः॥ ७६॥ उक्तश्च-"केचिद्भोजनभङ्गिनिर्भरधियः केचित् पुरन्ध्रीपराः, केचिन्माल्यविलेपनैकरसिकाः केचिच्च गीतोत्सुकाः । केचिद् द्यूतकथामृगव्यमदिरानृत्यादिबद्धादराः, केचिद्वाजिगजोक्षयानरसिका धन्यास्तु धर्मे रताः॥ ७७॥" धर्मे वैधेऽपि पुनर्यतिधर्मश्राद्धधर्मभेदाभ्याम् । मूलं किल जीवदयाऽ| शेषस्तस्यास्तु विस्तारः॥७८॥ तामेव च निर्वोढुं कृतिनः कुर्वन्ति सर्वविरतिरतिम् । तामन्तरेण तस्या न स्यादाराधनं सम्यग् ॥७९॥ यो यतिधर्मे नालंकीणः स प्रवीण! गृहिधर्मम् । सम्यक्त्वपूर्वमङ्गी सरङ्गमङ्गीचरीकर्ति ॥८॥ सोऽपि द्वादशरूपः प्ररूपितः प्राणिरक्षणायैव । लोका अपि लक्ष्म्यै कि विद्धति विविधान्न सदुपायान् ? ॥८१॥ धर्माः सर्वेऽपि कृपां विना विनश्यन्त्यवश्यमचिरेण । छेदे हि नागवल्या दूरेऽपि दलानि शुष्यन्ति ॥ ८२॥ किं बहुना यमनियमप्रमुखमशेषं दयां विना विफलम् । बहुफलमल्पमपीदं तयेति तत्रैव यतितव्यम् ||
Jain Education
on
For Private & Personel Use Only
( C
lainelibrary.org