SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रम् ॥ ५७ ॥ क्रयविक्रयेऽतिथित्वे राजकुले पूर्णफल आद्यः ॥ २८ ॥ शून्येऽरण्ये भवने ग्रामे तोये भये च संग्रामे । आरोहे - प्यवरोहे पुरस्सरेन्न पथि रात्रौ च ॥ २९ ॥ ध्यायन्नेवमवादीद्यामि खामिन्! सहामुना पुरतः । अपि राज्ञाऽनुज्ञातः कृतार्थमानीव मुमुदेऽसौ ॥ ३० ॥ अथ दिव्यनरः प्रसरज्ज्वाले ज्वलने चकार विकराले । झम्पापातं पृष्ठे | दुधः सचिवञ्च सह कैश्चित् ॥ ३१ ॥ निपतन्नेव स भस्मावशेषतां प्राप पापधीः सह हा । खमनोरथैः कथञ्चिद्यमधाम जगाम यद्वाऽयम् ॥ ३२ ॥ राजाऽपि रङ्गकलितः पतङ्गललितं तनोति तज्ज्वलने । यावत्तावदधे हरिणा | करुणायुजा भुजयोः ॥ ३३ ॥ आः किन्तु विघ्ननिघ्नं मामिह कुरुषे रुषेति परुषगिरम् । हरिराह नृपं किञ्चन सुस्थः शृणु नाथ ! वच्मि यथा ॥ ३४ ॥ असमीक्षितकृत्यकृतां नितान्तमत्राप्यमुत्र चानर्थः । कार्यं कार्यं साक्षात्समीक्ष्य सुपरीक्ष्य तक्षैः ॥ ३५ ॥ मा वेद देव ! देवैरपि यज्जीव्येत कञ्चनापि मृतः । किन्तु पटु कपटनाटकमिदं मया प्रकटितं सर्वम् ॥ ३६ ॥ दुर्मन्त्रिणैव मत्रितकुमकूटप्रपञ्च रचनातः । प्राणान्तसङ्कटे त्वन्मुखेन बहुशोऽस्मि निक्षिप्तः ॥ ३७ ॥ प्रक्षिप्यते स्म दन्तप्रपातपीडादिनिविडकष्टभरे । प्रसभं प्रभो ! भवानपि हहा ! महापापिना तेन ॥ ३८ ॥ मा जीवन् यस्त्वाप्तीभवन् परस्मै ददाति दुर्बुद्धिम् । यश्च परद्रोहपरः परधनललनारतिर्यश्च ॥ ३९ ॥ नृप ! आर्यः किं कुर्याद् यत्र कुमन्त्री कुमन्त्रमन्त्रणकृत् । दुष्टोऽपि स किं कुर्याद् यत्र सुमन्त्री सुमन्त्रपरः ||४०|| अत एव देव! दम्भप्रपञ्चतः सचिवमग्निसादकृषि । व्याधिविषद्रुमदृष्टा यथा कथञ्चिल्लघूच्छेद्याः ॥४१॥ स्वामिन्! | स्वामी त्वं मे तदुपेक्षे त्वां कथं हुताशान्तः ? । प्रविशन्तं हन्त यतः खामिद्रोहो महापापम् ॥ ४२॥ अन्येषामपि नियतं Jain Education national For Private & Personal Use Only १० गाथायां जीवदयायां ह रिबलवृत्तं ४१४-४४२ ॥ ५७ ॥ jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy