SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ - - K! तानाश्री। सात्त्विककष्टात्तुष्टे सुरे किमिष्टं न शिष्टानाम् ?॥ ८५॥ वाङ्मनसयोरविषयः काऽपि मयाऽदर्शि तस्यीय ऋद्धिश्च । का का कथं कथमिति क्षितिपाक्षिप्तः स पुनराख्यत् ॥८६॥ तस्या पुरी संयमनी शक्रपुरीप्रौढिदर्पसंयमनी । राजा स धर्मराजः प्रजाः पुनस्तत्र पुण्यजनाः॥ ८७॥ ख्याताऽस्य तैजसीति च सभा शुभा ताम्रचूडमथ दण्डम् । लेखनिकां पुस्तकमपि हस्तेषु चतुर्यु स च धत्ते ॥८८॥ शक्रादयोऽपि देवाः सेवाहेवाकमावहन्त्यस्य । विष्णुब्रह्ममहेशा अपि तत्तुष्ट्यै कृतक्लेशाः ॥८९ ॥ योगीन्द्रा अपि योगाभ्यास भीत्या भजन्ति तस्यैव । किंबहुना त्रिभुवनमपि वनमिव सेक्तुर्वशे तस्य ॥९॥ तस्य च सविता सविता दुस्तमसां प्रसविता प्रणाशमिह । सज्ञासज्ञा सञ्ज्ञावतीषु मुख्या पुनर्जननी ॥९१॥ भ्राता च तस्य शस्यः शनिरशनिरिवातिदःसहो जगति । मलिनाऽपि विहितविष्टपपवना यमुना पुनजामिः ॥९२॥ धूमोर्णा धूम्रमुखी द्वेष्याणां तस्य पट्टदेवी च । यानं पुनः प्रधानं धीरस्कन्धेषु धौरेयः॥९३ ॥ त्रिजगत्कृतसत्कारस्तस्यायं वैध्यतः प्रतीहारः । चण्डमहाचण्डाविति नाम्ना धाम्ना च दासवरौ ॥९४॥ लिपिकृच्च चित्रगुप्तस्त्रिजगत्सदसच्चरित्रलिपिकर्ता । ऋद्धिः सर्वाङ्गीणाऽप्यनन्यसाधारणाऽस्यैवम् ॥१५॥ तुष्टः स च कल्पतरू रुष्टस्तु कृतान्त एव सत्याह्नः । विश्वप्रभुतालक्षकमक्षणं लक्षणं ह्येतत् ॥९॥ लोकेऽप्युक्तम्-"यस्मिन् रुष्टे भयं नास्ति, तुष्टे नास्ति धनागमः। निग्रहानुग्रहो। न स्तः, स जातः किं करिष्यति ? ॥१७॥" तां तादृशीं समृद्धिं पश्यन् स्वदृशोरमंसि सफलत्वम् । लोकोऽपि वक्ति भव्यं बहुजीवनतो हि बहुदृष्टम् ॥९८॥ नाथ! मयाऽथ स युक्त्या निमन्त्रितः प्रीतिपूरितः प्रोचे । अत्यादरस्य - Jain Educatio EN.jainelibrary.org n For Private Personal Use Only al
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy