________________
रिवारम् । मत्र्यादिकैरपि समं निमत्रयामास सोल्लासः॥शायुग्मम् ॥ भुक्तिसमये च ताभ्यां नवनववेषान् विधाय सविशेषान् । परिवेषणादि विदधे वकौशलं दर्शथितुमतुलम् ॥२॥ प्रेतग्रहश्छलादतिदौःस्थ्यादाधिः कुपथ्यतो व्याधिः। कुनयात्कुयशः कोपः कटूक्तितः शोक इष्टमृतेः॥३॥ जलदनिनदादलकश्वाविषमनिलाच्च वहिरिव राज्ञः । तद्दर्शनान्मनोभूः प्रादुरभूदप्यसन प्रायः ॥४॥ युग्मम् ।। इयतीः सुदतीः कौतस्कुतीः कृती, प्राप्तवान् प्रतीते तु । दे एव हन्म्यमुं चेदिमास्तदानीं मदायत्ताः॥५॥ इति तर्कात् कर्कशहद्भुक्तोऽसौ सत्कृतः खसद्मगतः। भावं विभाव्य जगदे दुर्मतिसचिवेन सचिवेन ॥६॥ कृतरतिपोषे योषे इमे उभे एव देव ! जानीयाः। अनुरक्ते भक्तिं तव नवनववेषैस्त्वपूपुषताम् ॥७॥ तच्छवणाद्धरणिधवो द्विगुणरणरणकमुदृणन्नगृणात् । मन्निन् ! मन्त्रय हरिमृत्यूपायमायतिहितं तर्हि ॥ ८॥ खल इव लब्धावसरः सचिवः प्रोवाच देव ! हरिवचनम् । वञ्चनपरं नृणां यत् क जीवनं प्रविशतो ज्वलनम् ? ॥९॥ यमराजाह्वानमिषादक्षेपात् क्षिप्यते तदग्नौ सः। अषडक्षीणं क्षोणीरमणोऽप्यनुभणितवांस्तदिदम् ॥ १०॥ धिग धिम् धृष्टान् दुष्टान् पापिष्टानवमतान्यभवकष्टान् । ये दुर्धियः परेभ्योऽप्याप्ततया दुर्धियं ददते ॥ ११॥ हरिमाह्वाय्य नरेन्द्रोऽन्यदाऽवदद् युज्य
ते न ते सुहृदः । आदेष्टुं तदपि वदाम्यनन्यसाध्यं हि नः साध्यम् ॥ १२॥ निमिमन्त्रयिषोऽस्मि यमं समं सुरैः K/किङ्करैरिहोद्वाहे । वहिप्रवेशसाध्यं सिद्ध्यति तत्किन्तु भवतैव ॥ १३ ॥ सिंहस्य साहसजुषः सुजनस्य घनाघ
नस्य शशिनश्च । भानोश्च बृहद्भानोरनन्यसाधारणी शक्तिः ॥१४॥सात्त्विकमुकुट ! प्रागिव तत्साधय साध्य
Jain Education
lainelibrary.org
a
For Private Personal Use Only
l