SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ॥ वास्त्वपि समस्तः। श्रेयस्वी च यशस्वी प्रसद्य सद्यः समागच्छेः॥३३॥मच्चिन्तया च चितया माधाक्षीः खतनुमतनुवुद्ध्या यत् । स्रक्ष्यामि शीलरक्षां दक्षाः खलु तत्र कुलललनाः॥३४॥ विज्ञापयाम्यविज्ञाऽप्यहमेकं जीवितं निजं रक्षेः। अविचार्यकार्यकरणात्पतङ्गमरणं तु मा कार्षीः ॥ ३५ ॥ यतः-"जीवन् भद्राण्यवानोति, जीवन पुण्यं करोति च । मृतस्य देहनाशः स्याद्धर्माद्युपरमस्तथा ॥३६॥ प्रियतम! यद्वा शिक्षा दक्षाणां का विशिष्य पुरुषाणाम् । लेहग्रहिला महिलास्तदपि वदन्त्येव यत्तदपि ॥ ३७॥ स्निग्धां मुग्धां मुग्धाङ्गनागिरं तां सुधाकिरं सुचिरम् । पीत्वा प्रीतःप्रास्थित दक्षिणदिशि दक्षिणः क्षणतः ॥३८॥ सत्त्वैकसखा खसुखाद्जस्त्यजन्मक्षु स विषयग्रामान । निःसङ्ग इव बभासे समधिकवेगैककृतरङ्गः॥३९॥ विकटं तटिनीभर्नुस्तदं स्फुटन्तं तु वीचि-181 निर्घातः । सोऽगात् क्रमतोऽक्रममिव किमिव दीयोऽथवोद्यमिनाम् ॥४०॥ पारावारमपारंभीष्माकारं नृभिदुसत्तारम् । दर्श दर्श भवमिव भव्यः सोद्वेविजामास ॥४१॥ ध्यौ च निषिद्धोऽपि प्रियया प्राप्तोऽत्र यद्भविष्यतया। वारिधिविहितातङ्कां कथमिव लङ्कां व्रजिष्यामि ॥४२॥ नैवात्र यानपात्रप्रभृतिरुपायः प्ररूप्यते तज्ज्ञैः। कार्यमकृत्वा च कथं कृतप्रतिज्ञो निवर्तेऽहम् ? ॥४३॥ प्राग् धीवरोऽप्यवाप्य (पिच) देवेनैवेयती भुवं महतीम् । तेनैव यद्भविष्योऽभवन् भविष्यामि कथमधुना? ॥ ४४ ॥ ध्रुवमेकजीवरक्षाफलं मया तुच्छवित्तमिव सकलम् । लघु भुक्तं तद्युक्तं दरिद्रवन्मम सुदुःखित्वम् ॥४५॥ तेजस्च्यपि निस्तेजास्तत्राजनि सैष यन्न तचित्रम् । यत्तेजोऽधिपतेरपि दिशि तस्यां हीयते तेजः॥ ४६॥ यदा-नृपतेः स सेवकोऽजनि निस्तेजास्तत्र यन्न तत्कार्यम् । परि - -- For Private & Personal Use Only riainelibrary.org Jain Education anal
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy