________________
जातु निमन्य सजानिं भूजानिरभुजद्भक्त्या ॥५॥ अप्रतिरूपं रूपं निरूप्य लुभ्यन्नृपस्तु तत्पत्न्यां । हन्तुमपि हरिबलं दाग ध्यौ धिक्कामिनां चेतः॥६॥ ज्ञात्वाऽपि दुरभिसन्धि दुष्टो मन्त्री न्यवारयन्न नृपम् । प्रत्युत तद्वधवुद्ध्योददीपयत् पवन इव वहिम् ॥ ७॥ प्रभोः प्रसादेकदुराशया रयाद् , दुराशयान् पोपुषतो दुराशया। धिरमन्निणोऽप्यत्र परत्र भाविनीमनर्थवीथीं नहि मन्त्रयन्त्यपि ॥ ८॥ यतः-"सर्वत्र सुलभा राजन् !, पुमांसः प्रियवादिनः। अप्रियस्य तु पथ्यस्य, वक्ता श्रोता च दुर्लभः॥९॥" धीसखधियाऽभ्यधादिदमास्थानीमास्थितोऽथ नरनाथः । स्वोदवीवाहमहं सर्वोत्कर्षाचिकीर्घरहम् ॥ १०॥ तदुपरि पुरि लङ्कायां गत्वा सत्त्वाधिकः सपरिवारम् । को नामामन्त्रयिता विभीषणं भीषणं द्विषताम् ॥ ११॥ असमञ्जसमादेशं श्रुत्वैवमवाङ्मुखेषु निखिले-10 षु । क्षितिपतिरक्षत हरिबलमुखसन्मुखमेध कैतवतः॥१२॥ सचिवश्च तावदवदद्दम्भनिधिदेव! सेवकाः के? ते।। खाम्यादेशे येषां न्यग्मुखता क्लीयतासजुषाम् ? ॥१३॥ धुर्येवानुत्साहैहतकैः कथमस्तु वस्तुनः सिद्धिः। चित्तोत्साहो हि नृणां निवन्धनं साध्यसंसिद्धेः॥१४॥ देव ! तव मान्यताऽस्योचितैव धन्यस्य यो महोत्साही।
कर्ता कार्य यद्वा धर्ता जगतां हि हरिरेव ॥१५॥ श्रुत्वेत्यपत्रपिष्णुः स दैवपरतां सधैर्यमवलम्ब्य । तत्प्रत्यपद्यत Sमुदा त्रपागुणः कोऽप्यहो? पुंसाम् ॥ १६॥ त्रपयैव वीरपुरुषा विषमेष्वपि सङ्ख्यमुख्यकृत्येषु । तुरगाः प्रदीपन
इवाग्रतः स्युरवमय मृत्युमपि ॥ १७॥ अथ तत्कथितमतयं व्यतिकरमाकर्ण्य सा वसन्तश्रीः। तमुवाच विषादवती विज्ञा विज्ञातनृपचित्ता ॥ १८॥ भूविभुना निजभवने भोजनसमये समीक्ष्य मां लातुम् । आर्य च
Jain Education
a
l
For Private & Personal Use Only
M
inelibrary.org