________________
व्याजहार हरिबल ! सुभगाऽग्रिम ! कचिदत्रास्ति ॥ ५० ॥ अच्छुप्तामिव देवीं तां दिव्यालङ्कति तुरगयानाम् ।। निर्वर्ण्य तच्च तस्या वचः समाकर्ण्य कर्णसुधाम् ॥११॥ विस्मितमुदितः कृतवान् हङ्कारं हरिबलोऽथ मध्यगतः । तस्मादतोषहेतोरप्येषाऽन्तस्तुतोषतमां ॥५२॥ युग्मम् ॥ ऊचे च चतुरचेतः पुरतः प्रस्थीयतां त्वरितगत्या। स्युर्देशान्तरगमनान्मनोरथा नौ यथा फलिताः॥५३॥ नियतमियं सङ्केतितमन्यं मतुल्यनामकं कश्चित् । प्रीतिप्रहाऽऽह्वयते तत्किं नो यामि तत्स्थाने ? ॥५४॥ भाग्येनैतदुपस्थितमित्यन्तश्चिन्तयन्नयं सरयम् । निर्गत्य ततस्तस्याः पुरस्सरीभूय चलति स्म ॥ ५५॥ आम्नायं वृजिनानामानायं सह कुकर्मणा स जहौ । तत्रैव लाति राज्याशायां भिक्षाकपालं का! ॥५६॥ तं वीक्ष्य तादृशमसौ साशङ्कावत्कुमार ! नग्न इव । निर्वाहनश्च कस्मात्किं केनाप्यपहृतं खं ते ॥ ५७॥ दुष्कर्मवापहतं खया ममायेति स ब्रुवनन्तः । तां प्रति बहिःप्रलम्ब चकार हङ्कारमेव सुधीः18 ॥५८ ॥ निर्गमितसमग्रतया न वदति खेदोदयादयं नियतम् । ध्यात्वेति पर्यधाप्यत वर इव वरवेषमेष तया ॥ ५९॥ भणितश्च निपुण! गणनाऽतीतमदानीतवित्ततः खलु नौ । निखिलाभिलषितसिद्धिर्विशुद्धहेतोरिव भवित्री॥६०॥ तस्मादस्मिन् विषये न विषादनिषादसविधमपि गम्यम् । धनहान्यायं विदुरा दुःस्वप्नमिव स्मरन्त्यपि न ॥ ६१॥ इत्याख्याय विदुष्या मनोविनोदाय तस्य शस्यतमा । प्रेमरसोल्लासिन्यः पथि तास्ताः प्रस्तुता वार्ताः॥३२॥ स पुनः सर्वत्रापि हि हुकृतिमात्रोत्तरस्तदेकगतिः। हङ्कतिकृतितात्कालिकफलोपलब्धे रिव बभूव ॥६३॥ तस्येप्सितस्य चोचैस्त्वादिकसाम्याद द्वयेन तमसा सा। निश्शङ्काऽभूत् पूर्वं ततस्तु शङ्कामि
Jain Education
a
l
For Private
Personal Use Only
N
ainelibrary.org