SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ तत्कण्ठे । तेनाभिज्ञानकृते कपर्दिका सपदि मुमुचे सः॥२२॥ निर्भयतयेव पुनरपि स एव पतितोऽप्यमोचि तेनैवम् । स्थानान्तरेऽपि सन्ध्यावध्यपि पतितश्च मुक्तश्च ॥२३॥ अनुशयकथाऽपि न तथाऽपि तस्य नियमे दृढाशयस्यासीत् । प्रतिपन्नविधौ विधुरेऽप्यधीरतां यान्ति न हि धीराः॥२४॥ सायंसमये स महातिमिर्विमुक्तस्तमुक्तवान्नरवाक् । साहसिक! साहसात्ते तुष्टोऽस्मीष्टं वृणीष्व वरम् ॥२६॥ अयमप्यतिविस्मयमयहृदयस्तमुवाच वाचमिति मतिमान् । मत्स्योऽसि मत्स्य ! किं त्वं दास्यसि मत्स्योऽप्यथाभिदधे ॥२६॥ मा मां मत्स्यं ज्ञासीर्माऽवज्ञासीश्च यदहमुदधिसुरः। अवधार्याऽऽसन्नतया पक्षिषि ते नियमकक्षाम् ॥ २७॥ गृहन्ति नैव नियमं केचिदहन्ति निर्वहन्ति न च । गृह्णन्ति निर्वहन्ति च ते केचित् पञ्चषाः पुरुषाः॥२८॥ अपि मात्स्यिकस्य दृढतां तवेक्ष्य तुष्टोऽस्मि किं ददे तुभ्यम् ? । तेनेत्युक्तः स मुदाऽवददापदि सपदि मां रक्षेः ॥२९॥ प्रतिपद्य तथा सद्यस्तिरो-ISH ऽभवद्देवता स तु तमी ताम् । मत्स्यालाभाद्भार्याभीतोऽस्थाहाह्यदेवकुले ॥३०॥ तत्र स्थितश्च दध्यौ द्विधाऽप्ययं धीवरः कथमिवाहो? । दाग मे नियमः समभृत् फलेग्रहिश्चक्रिशालिरिव ॥ ३१॥ अप्येकजीवदयया मया | रयात् प्रापि निर्जरस्य वरः। यदि कुर्वे सर्वेष्वपि दयां तदा वेद का किं स्यात् ॥३२॥ मूर्द्धन्या धन्यानांतयेव ये नन्ति जातु नहि जन्तृन् । निमन्तुजन्तुघातननिरतं सततं पुनर्धिग माम् ॥ ३३॥ तन्निर्वहामि कथमपि यद्यौ|पयिकेन केनचित्कचन । तर्हि कृतसुकृतहिंसां जहामि हिंसां विपलतावत् ॥ ३४ ॥ दृष्टैहिकधर्मफलो भद्रप्रकृ| तिर्भविष्यभद्रोऽसौ । चिन्तयति यावदेवं तावद्यदभूत् शृणुत तभोः ॥ ३५॥ एकः प्राग नृपसुतया गवाक्षग भा.प्र.स. ८ For Private & Personel Use Only ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy