SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Jain Education स्याकामनिर्जरया जातं जातिस्मरणं पुत्रं प्रति कथयन्नस्ति-पुत्र ! किं मां मारयसि ?, तव पिताsहं, यदि न | प्रत्येषि तदाऽभिज्ञानं पश्य, ततइछागेन गृहान्तर्निधानस्थानं दर्शितं तत्र निधाने लब्धे प्रत्ययो जातः, सर्वैर्दयाधर्मः प्रपन्नः, तस्मात्सर्वथा हिंसा वर्ज्या, एतद्वतफलं चैवमाहुः - "जं आरुग्गमुदग्गमप्पडिहयं आणेसरत्तं फुडं, रूवं अप्पडिरूवमुज्जलतरा कित्ती धणं जुवणं । दीहं आउ अवचणो परिणो पुत्ता सुपुण्णासया, तं सवं | सचराचरंमिवि जए नूणं दयाए फलं ॥ १ ॥” एतस्यानङ्गीकारेऽतिचारे वा पशुताकुणिताकुष्ठादिमहारोगवि | योगशोकापूर्णायुर्दुःखदौर्गत्यादिफलं यतः - " पाणिवहे वहंता भमंति भीमासु गन्भवसहीसु । संसारमण्डलगया नरगतिरिक्खासु जोणीसु ॥ १ ॥” इति दशमगाथार्थः ॥ १० ॥ एतद्वते हरिवलधीवरकथा कल्पलतिकेव कल्पितमनल्पमल्पाऽपि कल्पयत्यचिरात् । जीवढ्याऽत्रापि भवे कैवर्त्तकहरिबलस्येव ॥ १ ॥ यद्वा-अपि सुकरं नियमवरं विधुरेऽप्याराधयन्ननन्यमनाः । प्राप्नोति फलं धीवरहरिवलवत्तद्भवेऽप्यतुलम् ॥ २ ॥ | तथाहि - कलयत्काञ्चनकमलामुच्चैः स्स चकास्ति काञ्चनाचलवत् । काञ्चनपुरं पुरं सन्नन्दनमानन्दि सुमनःश्रि ॥ ३ ॥ नृपतिर्वसन्तसेनस्तत्रासीत्रासितारिनृपसेनः । कान्ता वसन्तसेना मेनारूपेण तस्य पुनः ॥ ४ ॥ निरपत्ययोस्तयोरथ पृथुगुणपात्रं सुता वसन्तश्रीः । युवजनमन उन्मादे मूर्त्तेवासीद्वसन्तश्रीः ॥ ५ ॥ तस्याः प्रियंभविष्णोः | प्रभविष्णोः सुरपुरन्ध्रिरूपजये । नाप काऽप्यनुरूपं वरं पिता कविवदुपमानम् ॥६॥ इतश्च तिमिजालजालपातननिष्णातः प्रत्यहं प्रकृतिभद्रः । हरिवलनामा कश्चित् कैवर्त्तस्तत्र वसति स्म ॥ ७ ॥ भार्याऽनार्याधुर्या तस्य च onal For Private & Personal Use Only w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy