________________
तुसुखंडणं व गयमज्जणं व सङ्घपि । कासकुसुमं व वगगाइअं व विहलं इमीह विणा ॥ १ ॥ कृपानदी महातीरे, सर्वे धर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते पुनः १ ॥ २ ॥ एवं सति ये वदन्ति यज्ञादौ हिंसा धर्माय भवति, वेदविहितत्वाद्देवपूजादिवदित्यादि, तत्सर्वं प्रलापमात्रमेवेत्यवगन्तव्यं, हिंसायाः सर्वत्र गर्हितत्वात्, यदि च हिंसातोऽपि धर्मस्तदा विषादप्यमृतोद्भवः कृशानोरपि शीतलजलप्रभवः सर्ववक्रादपि | सुधारसोद्गारः खलमुखादपि सम्यक् परगुणोच्चारः क्षारान्धेरपि स्निग्धदुग्धपूरप्रसरः कर्दमादपि कर्पूरप्रकरचोदपादि, कदाचिद्देवतादिसान्निध्यादे॒वंविधान्यपि घटन्ते न पुनर्हिसातो धर्मसम्भवः कथमप्युपपत्तिपदवी मवगाहते, यतः - " अहिंसासम्भवो धर्मः, स हिंसातः कथं भवेत् ? । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ १ ॥ " निषिद्धा च परसमयेऽपि यज्ञहिंसा, यदाहुस्त एव - " अग्रीषोमीयमिति या, पश्वालम्भनकारिका । न सा प्रमाणं ज्ञातॄणां भ्रामिता (का) सा सतामिह ॥ १ ॥ यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! । तावद्वर्षसहत्राणि, पच्यन्ते पशुघातकाः ॥ २ ॥ अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ॥ ३ ॥ " अथ यज्ञे हताः प्राणिनः स्वर्गं प्रयान्ति ततो यज्ञहिंसा न दोषायेति, तदप्युन्मत्तप्रलपितं, यतः कोऽत्र प्रत्ययो ? यद्यज्ञे हताः खर्गे यान्तीति तेषां हि तथा कुमरणसम्भवे महार्त्तरौद्रदुर्ध्यानेन प्रत्युत दुर्गतिरेव सम्भविनी, तथा चात्र धनपालपण्डितसम्बन्धः - अन्यदा श्री भोजे मृगयागते कविभिर्नृपव्यावर्णने क्रियमाणे धनपालपण्डितः प्राह - " रसातलं यातु यदत्र पौरुषं, कुनीतिरेवाऽशरणो यदोषवान् । प्रहन्यते
Jain Educationational
For Private & Personal Use Only
jainelibrary.org