________________
क्रियते तदाऽपि तं भोजयित्वैव स्वयं भुञ्जीत, रोगादिशान्त्यर्थं पुनरुपवासाद्यपि कारयेत्, किंबहुना', यथा मूलगुणस्याद्याणुव्रतस्य मालिन्यं न स्यात्तथा यतितव्यम् ५, एवं चौर्यादिमहाऽपराधकारिणोऽपि वधबन्धादि |सापेक्षतयैव श्राद्धस्य युज्यते, नतु निर्दयतया, यदुक्तम्-"वहमारणअन्भक्खाणदाणपरधणविलोवणाईणं । | सवजहन्नो उदओ दसगुणिओ इक्कसि कयाणं ॥१॥ तिवयरे अपओसे सयगुणिओ सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा हुज विवागो बहुतरो वा ॥२॥” पडुकछागोत्पत्त्यादिबहुदोषहेतुमहिष्यजादिसङ्ग्रहं च वर्जयेदिति, वधबन्धादिग्रहणं चोपलक्षणं तेन क्रोधादिना हिंसादिहेतुमत्रतत्रौषधप्रयोगादयोऽन्येऽप्यतिचारतयाऽत्र व्रतेऽवगन्तव्याः। पर आह-अङ्गीकृतायाः प्राणातिपातविरतेरखण्डितत्वाद्धधन्धादिविरतेश्च श्राद्धेनानङ्गीकृतत्वात्कथं वधादीनामतिचारता ?, उच्यते, प्राणातिपाते प्रत्याख्याते परमार्थवृत्त्या निरपेक्षवधबन्धादयोऽपि प्रत्याख्याता एव, प्राणातिपातहेतुत्वात्तेषां, एवं चेत्तर्हि वधादिकरणे व्रतभङ्ग एव नातिचारो, नियमस्यापालनात्, मैवं वादीः, यतो द्विविधं व्रतम्-अन्तवृत्त्या बहिर्वृत्त्या च, तत्र यदा कोपाद्यावेशानिरपेक्षतया वधादौ प्रवर्तते तदा जातु स म्रियते तेन निर्दयत्वान्निरपेक्षत्वाच व्रतमन्तवृत्त्या भग्नं, हिंसाया अभावाच बहिवृत्त्या |पालितं, ततो देशस्य भङ्गाद्देशस्य पालनाचातिचारव्यपदेशः, तदुक्तम्-"न मारयामीतिकृतव्रतस्य, विनैव मृत्यु | क इहातिचारः । निगद्यते यः कुपितो वधादीन , करोत्यसौ स्यान्नियमेऽनपेक्षः॥१॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाड्याहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच, पूज्या अतीचारमुदाहरन्ति ॥२॥” यद्वाऽनाभो
Jain Educat
i onal
For Private
Personel Use Only
orary.org