________________
Jain Education
मिच्छानाणं तहेव य ३ । रागो ४ दोसो ५ मन्भंसो ६, धम्मंमि य अणायरो ७ ॥ १ ॥ जोगाणं दुप्पणीहाणं८, पमाओ अट्टहा भवे । संसारुत्तारकामेणं, सङ्घहा वज्जिअवओ ||२||” तेषु प्रकर्षेण संजननं - प्रवर्त्तनं प्रसङ्गः प्रमादरस्य प्रसंगः प्रमादप्रसङ्गस्तेन कषायविषयादिप्रमादप्रसङ्गेनैव हि प्रायो जीवा व्रतान्यतिचरन्ति, प्रमादप्रसङ्गश्च श्रुतकेवलिनामप्यनर्थहेतुः, किं पुनरन्यस्य ?, भणितं च - " चउदसपुच्ची आहारगा य मणनाणि वीरागावि । हुँति पमायपरवसा तयणंतरमेव चउगइआ ॥ १ ॥" श्री आचाराङ्गेऽपि - "पमत्तस्स सङ्घओ भयं अप्पमत्तस्स न कुतोवि भयं" प्रमादग्रहणं चात्रोपलक्षणं तेनाकुद्दिदर्पादिभिरपि यदाचरितमित्यप्यभ्यूह्यं, तत्राकुट्टि उपेत्य प्रतिषिद्धाचरणोत्साहात्मकः सङ्कल्पः दर्पो - वल्गनधावनादिउन्मत्तता, उक्तमपि - "आउहिया उविश्वा दप्पो पुण होइ | वग्गणाईओ । कंदप्पाइ पमाओ दप्पो पुण कारणे करणं ॥ १ ॥” उन्मत्ततया च वल्गनधावनादौ हयशकटादरौत्सुक्यखेटनादौ च मुधैव पञ्चेन्द्रियवधात्मोपघातादिरपि दोषः, एवं यदाचरितं तन्निन्दामीति गम्यं, यद्वाऽत्राचरितमित्येवोक्तं तत्प्रतिक्रमणं त्वग्रेतमगाथया व्यक्तिदर्शनपूर्वं करिष्यतीति नवमगाथार्थः ॥ ९ ॥ इदानीं यदाचरितं तदेव व्यक्त्या दर्शयति
| वह १ बंध २ छविच्छेए ३ अइभारे ४ भत्तपाणवुच्छेए ५ । पढमवयस्सऽइआरे पडिक्कमे देसिअं सवं ॥१०॥ 'वहबंधे 'ति 'वधो व्यधो वा' 'चतुष्पदादीनां निर्दयताडनं १, 'बन्धो' रज्ज्वादिद्भिर्गाढ नियन्त्रणं २, छविः - शरीरं
tional
For Private & Personal Use Only
jainelibrary.org