________________
मित्ति परिणओ संपत्तीए विमुच्चए वेरा । अवहंतोवि न मुच्चइ किलिट्ठभावोऽइवायरस ॥१॥" त्ति, भावतो न तु द्रव्यतोऽङ्गारमर्दकस्य कीटवुद्ध्याऽङ्गारमर्दने मन्दप्रकाशे रज्जुमहिबुद्ध्या नतो वा ३, न द्रव्यतो न च भावतो मनोवाकायैः शुद्धस्य साधोः ४, अन्यथा वा प्राणिवधद्वैविध्यादि, यत उक्तम्-"थूला सुहमा जीवा संकप्पारंभओ अ ते दुविहा । सवराहनिरवराहा साविक्खा चेव निरविक्खा ॥१॥” अस्या व्याख्या-प्राणिवधो द्विविधः। स्थूलसूक्ष्मजीवभेदात् , तत्र स्थूला द्वीन्द्रियादयः सूक्ष्माश्चात्रैकेन्द्रियाः पृथ्व्यादयः पञ्च बादरा न तु सूक्ष्मनामकर्मोदयवर्तिनः, सर्वलोकव्यापिनस्तेषां वधाभावात् स्वयमायुःक्षयेणैव मरणात्, अत्र च साधूनां द्विविधादपि वधान्निवृत्तवाद्विंशतिविशोपका जीवदया, गृहस्थानां स्थूलप्राणिवधान्निवृत्तिनतु सूक्ष्मवधात्, पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वादिति दशविशोपकरूपमई गतं, स्थूलपाणिवधोऽपि द्विधा-सङ्कल्पज आरम्भजश्च, तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपाद्यो जायते तस्माद्ही निवृत्तो नत्वारम्भजात् , कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवात्, अन्यथा च शरीरकुटुम्बनिर्वाहाभावात्, एवं पुनरर्दू गतं, जाताः पञ्चविंशोपकाः, सङ्कल्पजोऽपि द्विधा सापराधो निरपराधश्च, तत्र निरपराधान्निवृत्तिः सापराधे तु गुरुलाघवचिन्तनं यथा गुर्वपराधो लघुर्वेति, एवं पुनर॰ गतेऽस्या द्वौ विंशोपको जातो, निरपराधवधोऽपि द्वेधा-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षानिवृत्तिनं तु सापेक्षात्, निरपराधेऽपि वाह्यमानमहिषवृषभहयादौ पाठादिप्रमत्तपुत्रादौ च सापेक्षतया वधबन्धादिकरणात् , ततः पुनरर्द्ध गते सपादो विंशोपकः स्थितः श्रावकस्य जीवदयायाम् , एवंविधश्राद्धस्य
Jain Educati
o
nal
For Private & Personal Use Only
|N w.jainelibrary.org INE