SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ साधुनियमभङ्गाय कश्चित्पचनादि कृत्वा दत्ते इत्यादिग्रहः अथवा षटकायसमारम्भादिष्वयत्नेनागालिताशोधितजलेन्धनधान्यग्रहणादिना ये दोषाः कृतास्तांश्च निन्दामीत्यर्थः, श्रावकेण हि सादिरहितं संखारकसम्यक्सत्यापनादि विधिना निश्छिद्रदृढवस्त्रगालितं जलमिन्धनानि च शुष्काण्यजीर्णान्यशुषिराण्यकीटजग्धानि धान्यपक्कान्नसुखासिकाशाकस्खादिमपत्रपुष्पफलादीन्यप्यसंसक्तान्यगर्भितानि सर्वाण्यपि च जलादीनि परिमितानि सम्यक् शोधितान्येव च व्यापार्याण्यन्यथा निर्दयत्वादिना शमसंवेगादिलक्षणसम्यक्त्वलक्षणपश्चकान्तर्गताया अनुकम्पाया व्यभिचारापत्तेः, तदुच्यते-"परिसुद्धं जलगहणं दारुअधन्नाइआण य तहेव । गहि आण य परिभोगो विहीइ तसरक्खणट्टाए ॥१॥" महाभारतादावपि-"संवत्सरेण यत्पापं, कैवर्तस्येह जायते । एकाहेन तदाप्नोति, अपूतजलसङ्ग्रही ॥१॥ विंशत्यङ्गुलमानं तु, त्रिंशदङ्गलमायतौ। तद्वस्त्रं द्विगुणीकृत्य, गालयजलमापिबेत् ॥२॥ तस्मिन् वस्त्रे स्थितान् जीवान् , स्थापयेजलमध्यतः। एवं कृत्वा पिबेत्तोयं, स याति परमां गतिम् ॥३॥” इत्यादि। पृथ्व्यादीनां चागमे जीवमयत्वमेवमुक्तम्-"अदामलगपमाणे पुढविकाए हवंति जे जीवा । ते जइ सरसवमित्ता जंबुद्दीवे न मायंति ॥१॥" "एगंमि उद्गबिंदामि जे जीवा जिणवरेहिं पन्नत्ता । ते पारेवयः॥१॥" इत्यादि, उत्तरमीमांसादावपि-"लूतास्यतन्तुगलिते, ये बिन्दौ सन्ति जन्तवः। सूक्ष्मा भ्रमरमानास्ते, नैव मान्ति त्रिविष्टपे ॥१॥ कुसुम्भकुङ्कमाम्भोवन्निचितं सूक्ष्मजन्तुभिः । न दृढेनापि वस्त्रेण, शक्यं शोधयितुं जलम् ॥२॥" भगवद्गीतायामपि-"पृथिव्यामप्यहं पार्थ!, वायावग्नौ जलेऽप्यहम् । वनस्पतिगतश्चाहं,सर्वभूतगतोऽप्यहम् ॥१॥ भा.प्र.सू. national For Private & Personel Use Only V ww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy