________________
श्राद्धप्रति० सूत्रम्
॥ ३६ ॥
Jain Education
| समारम्भारम्भाणां त्रितयमुपात्तमत्र किमिति केवलः समारम्भ एवोपाददे ?, उच्यते, मध्यग्रहणे आद्यन्तयोरपि ग्रहणं तुलादण्डस्येवेति न्यायेन समारम्भोपादानात्संरम्भारम्भावप्युपात्तावेव मन्तव्यौ, तत्र संरम्भः - प्राणिवधादिसङ्कल्पः समारम्भः परितापनादिः, आरम्भः प्राणिप्राणापहारः, तथा चोक्तम्- "संकप्पो संरंभो परिताबकरो भवे समारंभो । आरंभो उद्दवओ सवनयाणं विसुद्वाणं ॥ १ ॥ ततस्तेषु त्रिष्वपि ये दोषाः - पापानि न | त्वतीचाराः श्राद्धेन षट्कायारम्भवर्जन स्यानङ्गीकृतत्वादनङ्गीकृते चातीचाराभावात् पक्के (पचने) सति - खयं पचने परपार्श्वत्पाचने चशब्दादनुमतौ च, किमर्थम् ? - 'आत्मार्थ' स्वभोगार्थं 'परार्थं' प्राघूर्णकाद्यर्थम् 'उभयार्थं ' खपर| भोगार्थं चशब्दान्निरर्थकद्वेषादिकृतपचनपाचनादौ च एवकारः प्रकारेयत्तासूचकः, निरर्थकपाकादि च लोकेऽपि निन्द्यं, यथोक्तम् - "पङ्गिभेदी वृथापाकी, नित्यं दर्शननिन्दकः । मृतशय्याप्रतिग्राही, न भूयः पुरुषो भवेत् ॥ १ ॥” ननु 'दुबिहे परिग्गहमी 'त्यनेनारम्भनिन्दा प्रागुक्ता पुनः कस्मादियम् ?, उच्यते, तत्र निषिद्धबहुविधारम्भमुद्दि| श्यात्र तु स्वनिर्वाहहेतुकारम्भमपि, अत एव तत्र प्रतिक्रमणमुक्तमत्र तु निन्दामात्रमेव, सम्यग्दृशा हि सावयारम्भेषु निर्वाहार्थमपि प्रवर्त्तमानेन धिग्मां षट्कायवधादिपापिनमित्यादि हृदि भावनीयं तथाऽऽह - "हिअए जिणाण आणा चरिअं मह एरिसं अन्नस्स । एवं आलप्पालं अवो दूरं विसंवयइ ॥ १ ॥” यद्वात्मार्थमिति कोऽर्थः ? - साधुनिमित्तमशने कृते मम पुण्यं भविष्यतीति मुग्धबुडितयाऽऽत्मपुण्यार्थं पापं करोति, परः | पितृमातृपुत्रादिस्तत्पुण्यार्थं साधुदानाय पाककरणादौ परार्थम्, एवमुभयोः पुण्यार्थमुभयार्थं चशब्दाद्वेषेण
For Private & Personal Use Only
tional
७ गाथा.
॥ ३६ ॥
jainelibrary.org