________________
Jain Educatio
यथा-भद्राचार्यस्य पश्चशती साधवः द्वादशशती साध्यः, तद्गच्छे च काञ्जिकमवश्रामणं त्रिदण्डोद्वृत्तोष्णोदकं च मुक्त्वा वारि न भुज्यते, रज्जार्यायाश्च दुर्दैवाद्देहो गलत्कुष्टेन विनष्टः, अन्य साध्वीभिर्दुष्करकारिके ! किमेतत् ? इति प्रश्ने तयोक्तम्-एतेन प्रासुकपानकेन देहो मे विनष्ट इति, तच्छ्रुत्वैव क्षुभितं सर्वसाध्वीनां हृदयं, वर्जयामः प्रासुकपानकमिति, तत्रैकया चिन्तितं सम्प्रत्येव जातु मे देहः शायं २ पतति तदाऽपि प्रासुकोदकं न त्यजामि नहि देहस्य प्रासुकोदकेन विनाशः किन्तु प्रागुदुष्कर्मणैव, हा विगनया महापापया किमिदमीदृशमसमञ्जसमवाच्यमुक्तं, यतः- “किं केण कस्स दिजइ विहिअं को हरइ हीरए कस्स । सयमप्पणा विदत्तं अल्लियह सुपि दुक्खंपि ॥ १ ॥” एवं ध्यायन्त्या एव तस्याः केवलमुत्पेदे, तया सर्वार्थिकादीनां सन्देहो हृतः, रज्जया रक्तपित्तदूषितया कोलिक मिश्रः स्निग्धाहारो भुक्तस्तथा श्राद्धसुतस्याप्रासुकं पानकं सङ्घ मुखं प्रक्षालितं, रुष्टया च शासनदेव्या शिक्षार्थं किश्चिच्चूर्ण रज्जाया आहारान्तः क्षिप्तं तेन देहो विनष्टो नतु प्रासुकोदकेनेति, ततो रज्जयोक्तं-भगवति ! मे प्रायश्चित्तं देहि, तयोक्तं तव शुद्धिहेतुः प्रायश्चित्तमेव नास्ति, त्वया तत्ताहरदुर्वचननिकाचितकर्मणा कुष्ठभगन्दर जलोदरश्वासाशगण्डमालादिमहादुःखमनन्तभवैरवश्यं वेदितव्यं अन्यासामार्याणां तु तया प्रायश्चित्तं दत्तमिति, एवमृगीतार्थतायां दुरन्तदोषं परिभाव्य धर्मविरुद्धं वचः सर्वथा त्याज्यम् । विचिकित्सायां चाषाढभूत्याचार्यदृष्टान्तः, तेहि बहुशिष्य निर्यापकैरन्यदैकः स्वशिष्यः सम्यग् निर्यापितः, देवत्वे त्वया स्वं दर्शनीयमिति दृढं सङ्केतितश्च तथाऽपि स सुरीभूतो व्याक्षिप्ता
,
national
For Private & Personal Use Only
www.jainelibrary.org