SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ नस्येति, सम्यक्त्वं पुरस्कृतं येन तस्मिन्नासन्नसम्यक्त्व इत्यर्थः, अन्तरकरणे च कृते मिथ्यात्वस्य स्थितिद्वयं स्याद्, अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तप्रमाणा तस्मादेवोपरितनी द्वितीया, स्थापना, तत्र प्रथमस्थिती मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणाद्यसमय एवौपशमिकसम्यक्त्वं प्रामोति, मिथ्यात्वदलिकवेदनाभावात्, एवं लब्धेनौपशमिकसम्यक्त्वेनौषधविशेषकल्पेन शोधितम्य मदनकोद्रवकल्पस्य मिथ्यात्वस्य शुद्धाशुद्धाशुद्धरूपं पुञ्जत्रयमसौ करोत्येव, अत एवौपशमिकसम्यक्त्वाच्युतोऽसौ क्षायोपशमिकसम्यग्दृष्टिर्मिश्रो मिथ्यादृष्टिवा भवति, उक्तश्च कर्मग्रन्थेषु-"धुवं पढमोवसमी करेइ | पुंजतिअं । तवडिओ पुण गच्छइ सम्मे मीसंमि मिच्छे वा ॥१॥” इदं च कार्मग्रन्थिकमतं, सैद्धान्तिकमतं | त्वेवं-यदुतानादिमिथ्यादृष्टिः कोऽपि तथाविधसामग्रीसद्भावेऽपूर्वकरणेन पुञ्जत्रयं कृत्वा शुद्धपुद्गलान् वेदय-1 नौपशमिकसम्यक्त्वमलद्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति, अन्यस्तु यथाप्रवृत्तादिकरणत्रयक्रमेणान्तरकरणे औपशमिकसम्यक्त्वं लभते, पुञ्जत्रयं त्वसौ न करोत्येव, ततश्चौपशमिकसम्यक्त्वाच्युतोऽवश्यं मिथ्यात्वमेव याति, उक्तश्च कल्पभाष्ये-"आलंबणमलहंती जह सट्टाणं न मुंचए इलिआ। एवं अकयतिपुञो | मिच्छं चिअ उवसमी एइ ॥१॥" प्रथमं च सम्यक्त्वे लभ्यमाने कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते, उक्तञ्च शतकबृहचणा-"उवसमसम्मट्टिी अंतरकरणे ठिओ कोइ देसविरइंपि लभइ श्रा.प्र.सू. ५ For Private & Personel Use Only ODainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy