________________
श्राद्धप्र
ति० सूत्रे
॥३॥
ये प्रकरणकारास्त एव श्रीललित विस्तराकारिणः, तैः संमता च स्तुतिश्चतुर्थी, वैयावृत्त्यकराणां सूत्रं च सर्वेषां करणीयतया चैत्यवन्दनकारिणां २०१ इत्येवं स्पष्टगाथा व्याख्यामयी विषयविवेचनप्रवणा काव्यबोध विधायिविविधच्छन्दोबद्धगद्य संस्कृतप्राकृतभाषामयकथाकलिता ऐदंयुगीनानेकाऽऽशङ्कासमाधानसाधना चतुरचेतश्चमत्कारकारिण्यपीयं वृत्तिः "अर्थदीपिका" नाम्नी निर्मिताऽपि पूज्यपादैर्विहायौद्धत्यं शोधिता लक्ष्मीभद्रैर्विबुधैः, ततो निष्कलङ्का समभ्यसनीयाऽभ्यासपटिष्टानामित्यभ्यर्थनापुरस्सरमर्थयन्ते.
उदन्वदन्ता आनन्दाः शैरमुन्यङ्केन्दुमिते हायने शुचिकृष्णद्वादश्यां सूर्यपुरे.
Jain Education national
For Private & Personal Use Only
प्रस्ताव.
॥ ३ ॥
www.jainelibrary.org