________________
Jain Education
तोऽन्यथा प्ररूपणादिलक्षणया गोष्टामाहिलादिवत् । उभयाज्ञया पुनः पंचविधाचारपरिज्ञानकरणोद्यतगुर्वादेशारन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः । अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुटानसेवाज्ञा तया तदकरणेनेत्यर्थः । ' इच्चेइय' मित्यादि गतार्थमेव, नवरं ' परित्ता जीवा' इति । संख्येया जीवा वर्त्तमानविशिष्टविराधकमनुष्यजीवानां संख्ययत्वात् ' अणुपरियहंति त्ति अनुपरावर्त्तन्ते भ्रमन्तीत्यर्थः 'इच्चेइय' मित्यादि इदमपि भावितार्थमेव नवरं 'अणुपरियट्टिस्संति त्ति अनुपरावर्त्तिष्यन्ति - पर्यटिष्यन्तीत्यर्थः । 'इबेइयमित्यादि' कंढयं नवरं ' विईवईसु' ति व्यतिव्रजितवन्तः - चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः । एवं प्रत्युत्पन्नेऽपि, नवरं श्रयं विशेष: । ' विश्वइंति 'त्ति, व्यतिव्रजति व्यतिक्रामन्तीत्यर्थः । अनागतेऽप्येवं, नवरं ' वीइवइस्संति'त्ति व्यतिवजिप्यन्ति व्यतिक्रमिष्यन्तीत्यर्थः । इति समवायाङ्गे ८५ प्रतौ ७० पत्रे ॥ ६ ॥
॥ इति श्रीमदकच्चरभूपालविशालचित्तालवालविवर्द्धितवृषरसाल सालातिशालिशील जगद्गुरु भट्टारक श्रीहरिविजयसूरश्विर शिष्योपाध्यायश्री कीर्त्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे विशेषसमुच्चयाऽपरनाम्नि समवायाङ्गविचारनामा चतुर्थस्तरङ्गः ||४|| त्रिजगत्प्रसरर्द्रुचिर्मृदुर्नयनागोचरवस्तुशंसिनी ।
मम चित्तमलङ्करोतु सा जिनवाणी मणिदीपिकाधिका ॥ १ ॥
national
For Private & Personal Use Only
www.jainelibrary.org