________________
विचार
अथ क्रमप्राप्ताः श्री पञ्चमाङविचाराः प्रस्तूयन्ते
रतकान:
केचिच्च लिखितं पुस्तकादिकं पादस्पर्शादिनाशातनाऽस्वीकारेणावगणयन्ति, तच्च तेषां संसारकारणम् , यतः श्री ॥४४॥ ITI भगवतीमारभद्भिः श्रीगणधरपादैरपि नमस्कृतत्वेनास्य पूज्यतमत्वात् । तथा च सूत्रम्
“नमो बंभीए लिवीए"त्ति । लिपिः-पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकारापि श्रीमन्नाभेयजिनेन स्वसुताया वामीनामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते । आह च-"लेहं लिवीविहाणं जिणेण बंभीइ दाहिणकरेण" इत्यतो ब्राझीति स्वरूपविशेषणं लिपेरिति । नन्वधिकृतशास्त्रस्यैव मङ्गलत्वात् किं मङ्गलेन अनवस्थादिदोषप्राप्तेः, सत्यं, कि तु शिष्यमतिमङ्गलपरिग्रहार्थ मङ्गलोपादानम् । इति श्रीभगवतीप्रथमशतकप्रथमोद्देशके ॥१॥
इह च केचनाविवेकिनः कदाग्रहग्रहीता वदन्ति-यदेते ये केचन सम्यग्दृष्टिव्यतिरिक्तास्तपस्यन्ति-मुक्त्यर्थमपि कायकष्टमनुतिष्ठन्ति तेन तेषामकामनिर्जरैव, न तु सकामा, तच्च विचार्यमाणमसारमाभासते, यतोऽकामानां-निर्जराधनभिलाषिणां सता तृट् अकामतृद् इत्याद्यकामनिर्जरास्वरूपमुक्तम्, किंच अत्राकामनिर्जरावा व्यन्तरेपूत्पत्तिरुक्ता, द्वितीयोद्देशके तु उत्पादाधिकारे तापसादीनां मिथ्यादृशामपि ज्योतिष्कब्रह्म (लोक) अवेयकादौ श्रूयते ततोऽवसीयते तेषां सकामैव, तथैव चाकामनिर्जरावतां मनोलब्धिरहितानामसंज्ञिनां व्यन्तरेष्वेवोत्पत्तिः ततश्च सधर्माभिलाषिणां शुभानुष्ठायिना सकामैव, अन्ये| पामकामेति तत्त्वम् । तत्र च अकामनिर्जरास्वरूपसूत्रं अकामनिर्जरावतां गतिप्रतिपादकं लिख्यते
जाज
॥४४॥
Jain Education
a
l
For Private
Personal Use Only
www.jainelibrary.org