________________
Jain Education Inter
“ जे इमे जीवा गामागरण गरणि गमरा यहाणि खेडकब्बडमंडपदोण मुहपट्टणासमसन्निवेसेसु अकामतएहाए अकामच्छुहाए अकामबंभचेरवासेणं अकामसीयाय वदंसमसग एहाणगसे अल्लमलपंकपरिदाहेणं अप्पतरो वा भुजतरो वा कार्ल अप्पा परिकिलेसंति । परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसु देवलोएस देवत्ताए उववत्तारो भवंति त्ति । " वृत्तिर्यथा - गामेत्यादि, ग्रामादिष्वधिकरणभूतेषु तत्र ग्रामो - जनपदप्रायजनाश्रितस्थान विशेषः, आकरो - लोहाद्युत्पत्तिस्थानं, नकरं - कररहितं, निगमो - वणिग्जनप्रधानं स्थानं, राजधानी - यत्र राजा स्वयं वसति, खेटं धूलिप्राकारं, कर्बट -कुनगरं, मडंबं-सर्वतो दूरवर्त्तिसन्निवेशान्तरं द्रोणमुखं - जलपथस्थलपथोपेतं, पत्तनं विविधदेशागतपण्यस्थानं, तच्च द्विधा जलपत्तनं स्थलपत्तनं चेति रत्नभूमिरित्यन्ये, आश्रमः - तापसादिस्थानं, सन्निवेशो - घोषादिः एषां द्वन्द्वस्ततस्तेषु, अथवा प्रामादयो ये संनिवेशास्ते तथा तेषु ' अकामतएहाए ' त्ति कामानां - निर्जराद्यनभिलाषिणां सतां तृष्णा-वड् अकामतृष्णा तया एवमकामक्षुधा 'अकामबंभचेरवासेणं' ति अकामानां निर्जराद्यनभिलाषिणां सतां, अकामो वा निरभिप्रायो बह्मचर्येणस्त्र्यादिपरीभोगाभावमात्रलक्षणेन वासो - रात्रौ शयनं कामब्रह्मचर्यवासोऽतस्तेन 'काम अरहाणगसेयजलमलपकपरिदाहेणं'
कामाये अस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन तत्र स्वेदः - प्रस्वेदः याति - लगति चेति जल्लो-रजोमात्र, मल:- कठिनीभूतं रज एव, पङ्को - मल एव स्वेदेनाद्रीभूत इति, 'अप्पतरो वा भुजतरो वा कालं'ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत् वाशब्दौ देवत्वं प्रत्यन्पेतरकालयोः समताभिधानार्थी, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावतामविशिष्टं तत्स्यात् इतरेषां तु विशिष्टमिति । ' अप्पाणं परिकिलेसंति 'ति विद्या
For Private & Personal Use Only
www.jainelibrary.org