________________
विचार
तत्सूत्रतात्पर्यानवयोधो निश्चियते, तथा हि यद्यप्यत्र टिकायां चातुरन्तसंसारकान्तारभ्रमणे जमालिदृष्टान्तीकृतोऽस्ति तथाऽपि एकदेशेनैवाऽयं दृष्टान्तो, न हि दृष्टान्तदाान्तिकयोः सर्वात्मना तुल्यत्वम् , मुखमालादकारिचन्द्रवदित्यादिवत्तेन च संसारभ्रमणे एव जमालिदृष्टान्तो न तु चातुरन्तसंसारकान्तारे, संसारभ्रमणं च जमालेः पञ्चदशभिर्भवैः संपन्नमेव, यदि च दृष्टान्तस्यैकदेशत्वानङ्गीकारेण सर्वात्मना जमालिदृष्टान्तस्तर्हि भगवत्या सह विरोधः संपनीपद्यते। यथा अत्र चातुरन्तसंसारकान्तारभ्रमण| मुक्तं तत्र तु जमालेः 'चत्तारि पंचदेवमणुयतिरिक्खजोणियभवग्रहणाई' इत्यादिना गतित्रय एव पश्चदशानामेव भवानामुक्तत्वादित्यलं व्यासेन, अनेन सूत्रेण नैवानन्तभवत्वं निर्णेतुं शक्यमिति । सूत्रं च यथा-" इच्चेइयं दुवालसंग गणिपिडगं अतिते काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकतारं अणुपरियटिसु । इच्चेइयं दुवालसंगं गणिपिडगं पड़प्पन्ने काले | परित्ता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियद॒ति । इच्चेइयं दुवालसंगं गणिपिडगं अणगए काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिस्संति । इच्चेइयं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए आराहित्ता चाउरंतसंसारं वितिवइंसु । एवं पड्डुप्पन्नेवि अणागएवि । त्ति, वृत्तिर्यथा-सांप्रतं द्वादशाङ्गविराधनानिष्पन्नं त्रैकालिकं फलमुपदर्शयन्नाह-' इच्चेइयमित्यादि इत्येतद्द्वादशाङ्गं गणिपिटकमतीते काले अनन्ता जीवा आज्ञया विराध्य चतुरंतसंसारकान्तारं 'अणुपरियाट्टिसु'त्ति अनुपरिवृतवन्तः। इदं हि द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधम्, ततश्चाज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यथा पाठादिलक्षणया अतीते काले अनन्ता जीवाश्चतुरन्तं संसारकान्तारंनरकतिर्यग्नरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्तवन्तो जमालिवत् । अर्थात्रया पुनरभिनिवेश-
॥४३॥
Jain Education M
a na
For Private & Personel Use Only
www.jainelibrary.org