SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ परिषदः-परिवारविशेषाः यथा-मातापितृपुत्रादिकाऽभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति, विस्तरधमश्रर्वणानि महावीरसंनिधौ, ततो बोधिलाभो,ऽभिगमः, सम्यक्त्वस्य विशुद्धता, स्थिरत्वं सम्यक्त्वशुद्धेरेव, मूलगुणोत्तरगुणाअणुव्रतादयः, अतिचारास्तेषामेव वधबन्धादिना खण्डितानि, स्थितिविशेषाश्च उपासकपर्यायस्य कालमानभेदाः, बहुविशेषाः, प्रतिमाः-प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमा, अभिग्रहग्रहणानि, तेषामेव पालनानि, उपसर्गाधिसहनानि, निरुपसर्ग-चोपसर्गाभावश्चेत्यर्थः, तपांसि च विचित्राणि, शीलवतादयोऽनन्तरोक्तरूपाः, अपश्चिमाः-पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थ मरणरूपे अन्ते भवा मारणान्तिकाः आत्मनः शरीरस्य जीवस्य च संलेखनाः- तपसा रागादिजयेन च कृशीकर णानि आत्मसंलेखनाः ततः पदत्रयस्य कर्मधारयः तासां, 'झोसणं' ति जोषणाः-सेवनाः करणानीत्यर्थः ताभिरपाश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा भावयित्वा बहुनि भक्तानि अनशनतया-निर्भोजनतया छेदयित्वा-व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते केषु ? कल्पवरेषु यानि विमानान्युत्तमानि, तेषु । यथाऽनुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि तेषु । कानि ? सौरव्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि, तत आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोधि लब्ध्वा इति शेषः, लब्ध्वा च संयमोत्तम-प्रधानसंयम तमोरजोधविप्रमुक्ता-अज्ञानकर्मप्रवाहविप्रमुक्ता उपयान्ति यथा अक्षयं-अपुनरावृत्तिकं सर्वदुःखमोक्ष-कर्मक्षयमित्यर्थः । तथोपासकदशासु आरव्यायते इति प्रक्रमः । इति समवायाङ्गे संख्याक्रमसमाप्त्यनन्तरं ६५ प्रतौ ७० पत्रे ॥२॥ आधुनिकाः पण्डिम्मन्याः केचन 'इच्चेइयं दुवालसंग' इत्यादिसूत्रं दर्शयन्तो जमालेरनन्तभवत्वं निश्चिनवते, अनेन च तेषामे Jain Education a l For Private Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy