________________
खचक्रं-खकीयराजसैन्यं तदुपद्रवकारि न भवतीत्येकोनत्रिंशः २६ । एवं परचक्र-परराजसैन्यमिति त्रिंशः ३० । अतिवृष्टिःअधिकवर्ष इत्येकत्रिंशः ३१ । अनावृष्टिः- वर्षणाभाव इति द्वात्रिंशः ३२ । दुर्भिक्ष- दुःकाल इति त्रयस्त्रिंशः ३३ । 'उप्पाइया वाहिं त्ति उत्पाता-अनिष्टसूचका रुधिर-वृष्ट्यादयस्तद्धेतुका येऽनास्ते औत्पातिकाः तथा व्याधयो-ज्वराद्याः तदुपशमोअभावो भवतीति चतुस्त्रिंशत्तमः ३४ । अन्यच्च 'पञ्चाहरो' इत आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः, शेषाः भवप्रत्ययेभ्योऽन्ये देवकृता इति । एते च यदन्यथाऽपि दृश्यन्ते तन्मतान्तरमवगन्तव्यम् । इति समवायाङ्गे चतुस्त्रिंशे स्थानके ८५ प्रतौ ३३ पत्रे ॥१॥
केचिच्च श्रावकाणामुपधानोद्वहनं न मन्यते, तच्च सिद्धान्तापरिज्ञानम् । यतः उवासगदसासु णं उवासगाणं तवोवहाणाई इत्यादिनात्र श्रावकोपधानोद्वहनस्योक्तत्वात् । नच वाच्यं अत्र च वक्ष्यते इत्युक्तं तत्र तु न दृश्यते इत्यादि, कालेन ग्रन्थस्य व्यवच्छिन्नत्वात्, अन्यथा स्थानद्विगुणतयाऽस्य भगवत्यादिभ्योऽपि महत्तरताया पूज्यमानत्वात् , अन्येषामप्यत्र वाच्यतयोक्तानां तत्र नोक्तानां जल्पानाम(न)ङ्गीकार्यतापत्तेश्चेति दिक् । उपधानाक्षरावबोधाय च साधन्तमिदं सूत्रं लिख्यते
“से कि तं उबासगदसाओ ? उवासगदसासु णं उवासगाणं नगराई उजाणाई, चेइयाई, वणखंडा,रायाणो अम्मापियरा, समोसरणाई, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइयइड्डिविसेसा, उवासगाणं च सीलव्वयवेरमणगुणपञ्चक्खाणपोसहोववासपडिवञ्जणयाओ सुअपरिग्गहा, तबोवहाणाई, पडिमाअो, उवसग्गा, संलेहणाओ, भत्तपञ्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुकुलपञ्चायाया पुणो बोहिलाभो अंतकिरियायो पापविजंति । उवासगदसासु ण उवा
Jain Education
a l
For Private & Personal Use Only
www.jainelibrary.org